________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता च्या० ५ ॥ १४९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सरणं मण्डितं । देवाश्च श्रीभगवतो वन्दनार्थं समागच्छन्तो वाद्यनिर्घोषं कुर्वन्ति । ब्राह्मणाश्च तं वाद्याने घोषं श्रुत्वा, हर्षिताः प्रोचुः- “अहो ! अस्माकं यज्ञकर्मणि यागहोममन्त्रादिना आकृष्टाः सन्तो देवा आग - च्छन्ति परं ते देवा चाण्डालपादकमिव यज्ञपाटकं मुक्त्वा गताः ! श्रीभगवत्समवसरणे । तत इन्द्रभूतिना अमर्षेण चिन्तितं- "अहो ! मयि सति अन्योऽपि कोऽपि पण्डिताऽभिमानी आडम्बरकर्ता वर्तते ? । अहो ! लोका भ्रमन्ति परं देवाः सर्वज्ञबुद्ध्या कथं तत्र गत्वा स्तुवन्ति?, बन्वन्ते अहो ! । देवा यागं त्यक्त्तवा, यान्ति ते किंवत् १, तीर्थपानीयं वायसा इव १, सरोवरं मण्डूका इव २, चन्दनं मक्षिका इव ३, सद्वृक्षं करभा इव ४, क्षीरान्नं शूकरा इव २. सूर्योद्योतं बूका इव ६, निधानं निर्भाग्या इव ७, रत्नत्रयं पार्श्वस्था इव ८, खशीलं कुलटा इव ९, सुगुरुं कुशिष्या हव १० अथवा सदृशो योगो यादृशा एते देवादयः तादृशो ज्ञानी इन्द्रजालिकः, तथाप्यहं न सहिष्ये एनं इन्द्रजालिकं । न च सूर्यद्वयं आकाशे १, नापि केसरिद्वयं गुहायां २, न च खड्गद्वयं कोशे तिष्ठेत् ३। ततः इन्द्रभूतिना केऽपि लोकाः पृष्टाः- “भो ! अयं इन्द्रजालिकः कलाकुशलः सर्वज्ञतां धरन्, वाग्विलासेन देवानपि विप्रवारयन् कीदृक् वर्तते ।" लोकाः प्रोचु:-"अयं सर्वज्ञः, केन अस्य स्वरूपं कथयितुं शक्यते ? ।" ततः इन्द्रभूतिः प्राह - "अहमेनं सर्वज्ञं न सहे, किंवत् ? तमःस्तोम सूर्यवत् १, करस्पर्श अग्निवत् २, श्वापदशब्दं सिंहवत् ३, रितुं क्षत्रियवत् ४। मया वादीन्द्रा अपि तूष्णीं स्थापिताः, तदा कोऽयं ममाग्रे गेहे शूरः । पेन अग्निना शैला दग्धाः, के तदग्रे वृक्षाः १ । १ येन वातेन गजा उत्पादिताः, का तदग्रे
For Private and Personal Use Only
गणधरवादः
॥ १४९ ॥