________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandi
www.kobatirth.org
शम्बायां सप्तपुष्पजीवास्तिलत्वेन निष्पत्स्यन्ते । ततः श्रीभगवतो वचनं कुपात्रत्वात् अन्यथाकर्तुं तिलस्तम्भ मूलत उन्मूल्य, अन्यत्र निक्षिसवान् । ततः कियद्दिनैः व्याघुट्यमानेन गोशालेन श्रीभगवतः पृष्टं"क स तिलस्तम्भः ?।” ततः श्रीभगवान् यस्मिन् स्थाने स निक्षिप्तोऽभूत् , तत्र देवेन घनवृष्टिः कृता, गोक्षुर्या चम्पिते भूम्यन्तर्मूलानि प्रविष्टानि, तिलस्तम्भः फलितोऽस्ति तन्मार्गे गतः। ततो गोशालः तं तिलस्तम्भ तथाविधं फलितं दृष्ट्वा, विशेषतः स्वमतं दृढीकृत्य, तं उन्मूलयितुं लग्नः। तावता इन्द्रेण हक्कितः-"रे दुष्ट ! त्वं प्रभोः वचनं अन्यथा करिष्यसि?" तदा गोशालो रुष्टो विशेषत उपसर्गान् अकरोत् । ततो ब्राह्मणग्रामे श्रीभगवान् गतः। तत्र द्वौ पाटको-एको नन्दस्य, द्वितीय उपनन्दस्य, नन्दन स्वामी प्रतिलाभितः। उपनन्देन गोशालं परं कथितवासि कदन्नं दत्तम् । ततो रुष्टेन प्रोक्तं-"मम धर्माचार्यतपःप्रभावात् दह्यता" एतद्गृहं तत् तथैव जातं ।। ततः तृतीयचतुर्मास्यां द्विमासक्षपणेन चम्पायां स्थितः। ततः कालायां संनिवेशे शून्यगृहे सीहो ग्रामणीपुत्रो गोमतीदास्या सह रममाणो गोशालेन हसितः, तेन बाढं कुहितः, तदा प्राह| "हे आर्य ! किं न निवारयसि ?" प्रभुस्तु मौनावलम्बी न वक्ति। तदा सिद्धार्थः प्राह-"एवं कार्य तव कुर्वत इदं अल्पं फलं, परलोके तु बहुदुःखभाक भविष्यसि ।” अथ एकदा स्वामी कुमाराख्यं संनिवेशं गतः। तत्र श्रीपानाधशिष्यो मुनिचन्द्रनामा अस्ति, तस्य साधून दृष्टा, गोशालः प्राह-"रे! के यूयं ?।" तदा त उक्तं"बयं निर्ग्रन्थाः।" गोशालः प्राह-"क यूयं निर्ग्रन्थाः ? के मे धर्माचार्यों निर्ग्रन्धः ! महदन्तरम् । यादृशः त्वं
For Private and Personal Use Only