________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
कल्पसूत्र
चतुर्मासी उपसर्गाश्च
सच आभीरस्य मित्रत्वात् विवाहावसरे खण्डखाद्यघृतादिकं पूरयामास । स च आभीरो हृष्टः तस्मै द्वौ कल्पलता वृषभो कम्बलशम्बलनामानौ दत्तवान् । स च जिनदासो अष्टमीचतुर्दश्योः पौषधं सोपवासं करोति, व्या०५ बलीवदी अपि खामिनं तथाविधं पुण्यं कुर्वाणं दृष्ट्वा, चतुर्दश्यां उपवासं चक्रतुः। एकदा जिनदासेन पौषधे
गृहीते सति कोऽपि सुहृत् ती बलीवों लात्वा, भाण्डीरयक्षयात्रायां अवाहयत्। ती तथा निर्दयत्वेन ॥१४॥
वाहिती, यथा अतीव पीडिती रुधिरेण भृतौ पश्चादानीय मित्रगृहे मुक्ती-मात् मन्दी जाती, पानीयमपि न * पिबतः। ततोऽनशनं गृहीत्वा, समाधिना मृतौ नागकुमारी देवी जाती ॥ इति कम्बलशम्बलोत्पत्तिः॥ ततः
श्रीभगवान् द्वितीयचतुर्मासी राजगृहे नालिंदापाटके तन्तुवायं अनुज्ञाप्य, तन्तुवायशालायां एकदेशे * मासक्षपणतपसा स्थितः, तत्र गोशालको मिलितः। तत्र विजयेन शुद्धानपारणं दत्तम् । ततो देवैः श्रीभग-*
वतः पञ्चदिव्यानि प्रकटितानि, तानि दृष्ट्वा गोशालो दध्यो-“यदि एतस्य शिष्यो भवामि तदा ममापि मृष्टान्नजापानं लोका ददाति ममाऽपि मानयन्ति च, ततोऽहं तव शिष्योऽस्मि" इत्युक्त्वा श्रीभगवता समं विहरति
स्म । एकदा स्वामी सुवर्णखलग्रामं याति, गोपैः पायसं पच्यमानं दृष्ट्रा, गोशालः प्राह-"भोजनं एषां भावि न वा ?।” सिद्धार्थेन प्रोक्तं-"भङ्गो भावी ।" ततो गोशालकवचनेन तैः विशेषतः सुरक्षिता स्थाली भग्ना । ततो गोशालेन मतं अङ्गीकृतं 'यत् भाव्यं तत् भवत्येव ।' पुनरेकदा स्वामी सिद्धार्थपुरात् कूर्मग्रामं प्रस्थितो मार्गे सिद्धार्थेन बहुमिलितलोकानां अग्रे श्रीभगवन्मुखे अवतीर्य प्रोक्तं-"अयं तिलस्तम्भो महान् भावी, अस्य
X**OXXXXX
अङ्गीकृतं यत् भाली।” ततोगा पच्यमानं दृष्ट्वा ।
For Private and Personal Use Only