________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
।
जातः, परं महाचण्डप्रकृतिः। एकदा राजकुमारान् स्वकीयस्य आश्रमस्य फलानि गृह्णतः दृष्ट्वा, कोपेन हस्ते परशुं गृहीत्वा तन्मारणाय धावन, अन्धकूपे पतितो मृत्वा कनकखलतापसाश्रमे चण्डकौशिको जातः। स च सो दृग्विषो रोषेण लोभेन च वनं सर्वतः प्रदक्षिणीकुर्वन् , पशुपक्षिमनुष्यादिकं यं पश्यति सूर्यसंमुखीभूय दृशा ज्वालयति । पूर्व तापसाश्रमे तापसा एव ज्वालिताः, अर्धदग्धाश्च केचन नष्टाः, स मार्गो लोकः मुक्तः, भगवान् लाभं ज्ञात्वा लोकः निवारितोऽपि यत्र सर्पबिलं तत्पाचे कायोत्सर्गेण स्थितः, सर्पण निर्गत्य प्रभुर्दष्टः, रुधिरं च गोक्षीरसदृशं धवलं दृष्टं, सर्पण ज्ञातं-"अन्यं अहं दशामि तदा स भस्मीभवति । अत्र तु रुधिरमपि रक्तं न निःसृतं ।” खामिनापि प्रोक्तं-"रे चण्डकौशिक ! बुध्यस्व रे वराक!" ततः सर्पस्य जातिस्मरणज्ञानं समुत्पन्नं, पूर्वभवो दृष्टः, ततः प्रतियुद्धेन पक्षं यावत् अनशनं कृत्वा, कर्मक्षयाय बिलमुखे मुख कृस्वा अस्थात् । प्रभुः तं प्रतिबुद्धं ज्ञात्वा ततश्चचाल । सर्पोऽपि लोकैराहन्यमानो वेदनां सम्यगधिसह्य श्रीप्रभोः ध्यानात् सहस्रारे अष्टमदेवलोके देवो जातः। श्रीभगवता च पारणं नागसेनगृहे कृतं । ततः श्वेताम्यां नगर्या प्रदेशिराजेन महिमा कृता । ततः श्रीभगवान् सुरभिपुरं गतः। तत्र गङ्गानां नावं आरूढः श्रीभगवान्, तदा धूघूराजवासितं शब्दः श्रुत्वा खेमलिको विज्ञः प्राह
"मरणान्तकष्टं भविष्यति, परं अस्य मुनेः प्रभावात् दलिष्यति।" ततः सिंहजीवः सुदंष्ट्रनागकुमारो नावं a योलयति, तदा सम्बलकम्बलाभ्यां स निराकृतः। तयोरुत्पत्तिरियं मधुरानगर्या जिनदासः श्रावकोऽभूत्,
For Private and Personal Use Only