________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०५
॥१३९॥
पुरस्तात् प्रोक्तं-"अनेन अच्छन्दकेन वीरघोषस्य दशपलकं वट्टलकं छन्नं गृहीत्वा, महिषेन्दुवृक्षस्य श्रीआवश्यक- चतुर्मासीः |चूर्णिवचनात् वर्जूरीवृक्षस्य पूर्वस्यां दिशि हस्तात् अधः स्थापितं अस्ति । १ पुनः इन्द्रशर्माब्राह्मणस्य अनेन चण्डकोछागो भक्षितोऽस्ति, तस्य अस्थीनि एतस्य दक्षिणस्यां दिशि उत्कुरुडके गृहबदर्या अधः सन्ति २, तृतीयं शिककृतोतस्य भार्या कथयिष्यति। ततः तैर्लोकः गत्वा तथैव सर्व दृष्टं, भार्या पृष्टा पाह-"मत्पतिः भगिनीपतिरस्ति।" पसर्गाश्च ततो अच्छन्दो लज्जितःप्राह-“हे खामिन् ! यूयं अन्यत्र यास्यथ, परं अहं कुत्र यामि?" इति अग्रीति ज्ञात्वा, 'अप्रीतिस्थाने च न स्थेयं' इति अभिग्रहं स्मृत्वा, भगवान् विहृतः । वर्धमाननामान्तराले द्वे नद्या-वर्ण-| वालुका रूपयवालुका च, उत्तरवाचालगमनाय मार्गद्वयं-एको वक्रः, द्वितीयः सरलः, तत्र सरलमार्ग त्यक्त्वा, वक्रमार्गेण यत्र कनकखलनामा तापसाश्रमः तत्र गतः यक्षगृहमंडपे स्थितश्च । तत्राश्रमे चण्डकौशिकनामा सोऽस्ति, तस्य सम्बन्धो यथा-कस्मिंश्चिद् ग्रामे गुरवः स्थिताः। एकः साधुः क्षुल्लकसाधुं सहायीकृत्य, पारणार्थ गोचरचर्यायांगतो, वर्षाकालत्वेन समुत्पन्ना एका भेकी-मण्डूकी साधुः चचम्प। सदा क्षुल्लका प्राह-"भो साघो। त्वया मण्डूकी हता।" साधुः ईय॑या प्राह-“एघा पूर्व एव मृताऽभूत्, न मया मारिताऽस्ति, यदि अधिक
वक्ष्यसि तदा मुखं भवयामि ।” ततः क्षुल्लको मौनं कृत्वा स्थितः । ततः प्रतिक्रमणे आलोचनाप्रस्तावे क्षुल्लकेन ॥१३९॥ al पुनः प्रोक्तं-"भो साधो ! मण्डूकी त्वया मार्गे चम्पिता, सा आलोचयितव्या।" ततो रुष्टः साधुः क्षुल्लकं हन्तुं * समुत्थितो धावमानः स्तम्भे मस्तकं भग्नम् , मृत्वा ज्योतिष्कदेवेषु समुत्पन्नः। ततःच्युत्वा पञ्चशततापसपतिः *
For Private and Personal Use Only