________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्मासी उपसर्गाश्च
कल्पसूत्रं तादृशस्ते धर्माचार्यो भविष्यति।" पुनर्भणितं-"स्वामितपसा युष्माकं उपाश्रयो दह्यताम् ।” परं न दग्धः, कल्पलता ततः स्वामिसमीपे प्रत्यागत्य प्रोक्तं-“हे स्वामिन् ! अद्य श्वो वा तव प्रभावो न तादृग् दृश्यते।" सिद्धार्थेन व्या०५ प्रोक्तं-"साधवो न दह्यन्ते।" ततो रात्रौ स मुनिचन्द्रो जिनकल्पतुलनां कुर्वन् कायोत्सर्गस्थः कुम्भकारेण
Xचौरभ्रान्त्या व्यापादितः, अवधिज्ञानं उत्पाद्य वर्ग जगाम, तन्महिमाथं सुरैः आगत्य महान् उड्योतः कृतः। ॥१४१॥
तं दृष्ट्वा गोशालः प्राह-"अहो ! अद्य तस्य खोहई [उपाश्रयः] दह्यते, सत्यः स्वामिप्रभावः । ततःसिद्धार्थेन यथा खरूपं प्रोक्तं । तथापि कुपात्रः तत्र गत्वा तस्य शिष्यान् निर्भर्सयामास । ततः स्वामी चौरायां गतो हेरकाविति कृत्वा आरक्षका भगवन्तं कूपे क्षिपन्ति, तत्र पूर्व गोशालः पश्चात् भगवान् । ततः सोमा-जयन्यो उत्पलभगिन्यौ संयम दुष्करत्वेन परित्यज्य प्रताजिकीभूते उपसर्ग ज्ञात्वा, तं उपसर्ग उपशामयतः। ततो भगवान् पृष्ठचम्पायां गत्वा चतुर्थमासक्षपणेन चतुर्थचतुर्मासी स्थितः। तत्र प्रतिदिनं | जीर्णश्रेष्ठिनिमश्रितेनापि श्रीभगवता अभिनवश्रेष्टिगृहे पारणं कृतं, विस्तरसम्बन्धः आवश्यके । ततः श्रीभगवान् कयङ्गले गतः। तत्र माघमासे दरिद्र-स्थविर-नामकाः पाखण्डस्थाः जागरणदिने गायन्ति । गोशाला* तान हसन् तैः कुतिः , परं आर्यशिष्यत्वात् मुक्तः । ततः श्रावस्त्यां गतः, तत्र पितृदत्तस्य भार्या पर सन्तान न जीवति । तया शिवदत्तनैमित्तिकः पृष्टः । तेन प्रोक्तं-"गर्भमांसमिश्रं पायसं भोजनं दर्शनिनो देहि यथा| सन्तानं जीवति ।" तस्मिन् समये गोशालेन स्वामी पृष्टः-"अहं अद्य कीदृशं भोजन लप्स्ये?" सिद्धार्थेनोक्तं
HOTOXXXXXXXXXX
डा
॥१४१॥
For Private and Personal Use Only