________________
Shri Mahavir Jain Aradhana Kendra
Caya
www.kobatirth.org
तद्गन्धाकृष्टैः भ्रमरैः गात्रं कदर्थितं । सुन्दररूपत्वात् तरुण स्त्रीभिः भर्तृत्वेन प्रार्थना कृता, तरुणपुरुषैः स्वामित्वेन प्रार्थना कृता । एवं श्रीभगवतः चतुरो मासान् साधिकान् यावत् अनुलोमप्रतिलोमा उपसर्गा जाताः ॥ अथ श्रीभगवान् कीदृशो जातः ?, तत्राह
समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी होत्या, तेण परं अचेलए पाणिपडिग्गहिए ॥ समणे भगवं महावीरे साइरेगाई दुवालस वासाईं निच्चं वोसटुकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तं जहा - दिवा वा माणुसा वा तिरिक्खजोणिआ वा, अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्मं सहइ खमइ तितिक्खइ अहियाइ ॥११७॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- "समणे भगवं" श्रमणो भगवान् महावीरः साधिकमासं संवत्सरं यावत् चीवरधारी दीक्षाग्रहणे वामस्कन्धे इन्द्रसमर्पितवस्त्रधारकः अभवत् । ततः साधिकमासवर्षात् ऊर्ध्वं अचेलको - वस्त्रविवर्जित आसीत् । कथमित्युक्ते संबन्धमाह
भगवता यदा दीक्षा गृहीता तदा शक्रेण देवदृष्यवस्त्रं भगवतो वामस्कन्धे स्थापितम् । ततः पश्चात् भगवतः पितृमित्रः सोमदेवो विप्रो महादरिद्रः करद्वयं योजयित्वा दीनहीनचचनैः श्रीवीरम् इति विज्ञपयति स्म -
For Private and Personal Use Only