________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ५
॥ १३० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देहि ।” ततः इन्द्रेणोक्तम्- " त्वया भगवान् न मोच्यः ।" इत्युक्त्वा कौशिकोsपि [ इन्द्रोऽपि ] खस्थानं गत इति । द्वितीय दिने कोल्लाकसंनिवेशे बहुलब्राह्मणगृहे भगवता गृहस्थकांस्यपात्रे पायसेन मधुघृतसंयुक्तेन पारणं कृतं । प्रथमपारणकं गृहस्थपात्रे परमान्नेन चकारेति आगमिकान्तर्वाच्ये । प्रथमपारणकं सपात्रधर्मज्ञापनार्थं पात्रे एव विहितवान् इति कल्पकिरणावयां । देवैश्च पञ्चदिव्यानि प्रकटितानि वेलोत्क्षेपः १ गन्धोदकपुष्पवृष्टिः २ दुन्दुभिनादः ३ आकाशे अहो दानमिति घोषणं ४ सार्धद्वादशकोटिसुवर्णवसुधारावृष्टिश्चेति ५ । इयं वसुधारावृष्टिः उत्कृष्टा, जघन्या तु सार्धद्वादशलक्ष सुवर्णवृष्टिः ज्ञेया । ततो भगवान् विहृत्य, मोराकसंनिवेशं गतः । तत्र सिद्धार्थवयस्यो दुइजंतकनामा कुलपतिः मिलितः, भगवता पूर्वाभ्यासात् बाहुः प्रसारितः, तेनापि कुशलवार्ता पृष्टा । तत्र एकरात्रिं स्थित्वा प्रभाते विहारकरणे दुइवंतकेन प्रोक्तम्“हे स्वामिन् ! अष्टौ मासान् शेषकाले अन्यत्र भ्रान्त्वा वर्षाकाले अत्र स्थेयमिति” भगवताऽप्यङ्गीकृतं । ततो भगवान् शेषे कालेऽन्यत्र विहृत्य तत्र मोराकसंनिवेशे आगत्य एकस्य कस्यचित् कुलपुत्रस्य [तृणगृहे] उटजे प्रभुः स्थितः, दैवयोगेन मेघवृष्टिः न जाता, तेन गावः तृणानि भक्षयन्ति, भगवान् न निवारयति, ततः कुलपुत्रस्य अप्रीतिः जाता । तदा भगवता अभिग्रहपञ्चकं गृहीतम् । अप्रीतिस्थाने न स्थेयं १, कायोत्सर्गे स्थातव्यं २, मौनं कार्यं ३, पाणिभोजिना भाव्यं ४, गृहस्थस्य विनयो न कार्यः ५ चेति । श्रीभगवङ्गात्रं च | इन्द्रेण सुरभिचन्दनादिना अनुलिप्तमासीत् दीक्षासमये, स च गन्धो मासचतुष्टयेनापि न गतः । तेन
For Private and Personal Use Only
अनुलोम
| प्रतिलोमा उपसर्गाः
॥ १३० ॥