________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
EXOXXX-6XOXOXOXOXOX
अथ भगवान् ततो विहृत्य, जनमार्ग त्यत्तवा पल्लीमार्गेण मुहूर्तशेषे दिवसे कुम्मारग्रामसमीपे रात्रौ कायोत्सर्गे स्थितः। तत्र एको गोपो दिवसे वृषभान वाहयित्वा, सन्ध्यायां एतत्पाचे चरन्तु इति कृत्वा गोदोहार्थ ग्रामे गतः, प्रत्यागतश्च तान् अपश्यन् स्वामिनं प्राह-"क गता मे वृषभाःहि।" श्रीभगवान् मौनत्वात् न ब्रूते, ततोऽन्यत्र रात्री ते गवेषिताः, परं न दृष्टाः कापि, पुनः भगवत्समीपं आगतः, तदवसरे वृषभा अपि अन्यत्र भ्रान्त्वा भ्रान्त्वा, भगवत्समीपं आगताः गोपेन दृष्टाः । तदा गोपेन कथितम्-"रे पाखण्डिन् ! त्वया ज्ञातं अहमेतान् वृषभान् लात्वा यास्यामि ! इति प्रच्छन्नं त्वया वृषभा एतावन्तं कालं स्थापिता अभूवन् ।” ततो गोपो रुषा रोषा)क्रान्तो दामनं गृहीत्वा, यावत् ताडनार्थ उद्यतः, तावता अवधिना ज्ञात्वा इन्द्र आगत्य, तं स्तम्भयामास, प्रोक्तांश्च-"रे! सिद्धार्थराजपुत्रं अद्य प्रत्रजितं त्वं न जानासि?" इति दूरीकृतः। ततः इन्द्रो भगवन्तं प्राह-“हे स्वामिन् ! तव प्राकृतं कर्म प्रभूतं अशुभं वर्तते, तेन तव द्वादशवर्षाणि यावत् उपसर्गा भविष्यन्ति। तावन्तं कालं अहं तान् उपसर्गान् वारयन् तव वैयावृखं करोमि।" प्रभुःपाह-"भो इन्द्र !
न एवं भूयं, न एअं भविस्सइ, न एअं भवइ, जन्नं अरिहंता देविंदस्स चा असुरिंदरस वा निस्साए केवलनाणं * उप्पाडिंसु सिद्धिं वा वचंति ।” अत्रावसरे-"मारणान्तोपसर्गस्य वारणार्थ बिडौजसा । सिद्धार्थः स्थापितः|
खामि मातृष्वज्ञेयव्यन्तरः॥१॥” इत्युक्तत्वात् , सिद्धार्थनामा व्यन्तरो भगवतो मातृष्वस्रया, अन्तर्वाच्यादौ तु स्वामिपितृव्यः सिद्धार्थ इत्युक्तमस्ति, स समागत्य इन्द्रं प्राह-"अहं श्रीभगवतो वैयावृत्यं करोमि, ममादेशं
वायास्यामि । इति पापेन दृष्टाः । तदानासमीपं आगतः, ना
XXXOXOXOXOXXX6K6XOXOK
For Private and Personal Use Only