________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीक्षाहणं
कल्पसूत्र भवनपतिसहस्राणि समतिक्रामन् उल्लङ्घयन् । तं आदीनां गीते गीतमध्ये यत् वादितं वादनं तेन यो रवः, कल्पलता तेन । कीदृशेन ? । मधुरेण-मनोहरेण । पुनः कीदृशेन ? । जयशब्दघोषमिश्रितेन । पुनः कीदृशेन? । मजुमचुना, व्या०५४ न ज्ञायते कोऽपि किमपि जल्पतीति । अतिकोमलेन वा घोषेण च लोकानां खरेण प्रतिवुध्यमानः सावधानी
भवन् । पुनः सर्वा -समस्तछत्रादिराजचिन्हरूपया, द्युतिः आभरणादीनां, युतिर्वा इष्टवस्तुयोगतः तया, ।।१२८॥
सर्वबलेन-बलं-हस्त्यश्वरथपदातिरूपं चतुरङ्गसैन्यं, सर्ववाहनेन वाहनकरभवेसरशिविकाशकटयानादिसमुदायः। “सबसमुदएणं" पौरादिमेलापकेन सर्बादरेण सौचित्यकृत्यकरणेन, सर्वविभूत्या विभूतिः संपत् तया, सर्वविभूषया विभूषा-शोभा तया, सर्वसंभ्रमेण संभ्रमाप्रमोदकृतीत्सुक्यम्, सर्वसङ्गमेन संगमा वजनमेलापकः, सर्वप्रकृतिभि:-प्रकृतयोऽष्टादश नैगमादिनगरवास्तव्यलोकास्ताभिः, सर्वनाटकैः-नाटकादीनि सुगमानि, सर्वतालाचरैः सर्वावरोधेन सर्बपुष्पगन्धमात्यालङ्कारविभूषया । व्याख्या पूर्ववत् । सर्वतूर्यशब्दसनिनादेन सर्वतूर्यशब्दानां मीलनेन या संगतो निनादो-महाघोषः तेन । अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिः दृष्टा इत्यत आह
महया इड्डीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुकढुंदुहिनिग्घोसनाइयरवेणं
॥१२८॥
For Private and Personal Use Only