________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०५
खजनादिभिः जयजयशब्दपोष:
॥१२७॥
अपि च समुच्चये । अत्र सिद्धिशब्देन श्रमणधर्मस्य घशीकारा तस्य मध्यं-लक्षणया प्रकर्षः। तत्र त्वं निरन्तरायं तिष्ठ इत्यर्थः । अत एव रागद्वेषमल्लौ तपसा याह्याभ्यन्तरेण साधकतमेन निजहि-निगृहाण । कीदृशः सन् ? "धिइधणिअबद्धकच्छे” धृतौ-सन्तोषे धैर्ये वा धणिअं-अत्यर्थ बद्धकक्षः सन् । पुनः अष्टकर्मशजून मर्दय, केन ध्यानेन आर्तरौद्रनिषेधाय आह-"उत्तमेणं" उत्तमसा-तमोऽतीतेन शुक्लेन अप्रमत्तः सन् गृहाण च । आराधना जयपताका हे वीर! त्रैलोक्यमेव रङ्गा-मल्लाक्षवाटकः तन्मध्ये प्रामुहि । वितिमिरं-अनुत्तरं केवलज्ञानं गच्छ च मोक्षं-परमं पदं । केन, किं कृत्वा ? । ऋषभादिजिनोक्तेन मार्गेण रत्नत्रयरूपेण सरलेन अक्षेपेण मोक्षप्रापकत्वात्, हत्वा परीषहच{ । जय क्षत्रियवरवृषभ ! जात्यक्षत्रियो हि परचमूं हन्ति, स्वौजसा बहूनि दिवसानि बहून् पक्षान् , बहून् मासान, बहून् ऋतून् हेमन्तादीन् बहूनि अयनानि-षण्मासानि दक्षिणायनोत्तरायणरूपाणि, बहूनि वर्षाणि यावत् अभीतः परीषहोपसर्गेभ्यः भैरवभयानां क्षान्त्या क्षमो न तु असामादिना, तव धमें प्रस्तुतसंयमे अविन-विधाभावो भवतु "त्ति कटु" इति उच्चार्य जयजयशब्द, प्रयुञ्जते खजना एव । पुनरपि श्रीभगवान् कया विच्छिच्या नगरमध्ये निर्गच्छति, तबाह
तए णं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे २, वयणमालासहस्सेहि अभिथुत्वमाणे २, हिययमालासहस्सहिं उनंदिजमाणे २, मणोरहमालासहस्सहिं विच्छिप्प
१२७॥
For Private and Personal Use Only