________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०५
॥१२६॥
सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे, संखियचक्कियनंगलिअमुहमंगलियवद्ध- Hदीक्षार्थ माणपूसमाणघंटियगणेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं
। नगरे कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मिअमहुरसस्सिरीआहिं वग्नहिं अभिनंदमाणा अभि
निस्सरणं थुवमाणा य एवं वयासी ॥ ११३ ॥व्याख्या-"तेणं कालेणं" तस्मिन् काले तस्मिन् समये यो हेमन्तस्य ऋतोः प्रथमो मास: प्रथमः पक्षो मार्गशीर्षबहुलः। एतावता मार्गशीर्षमासस्य कृष्णदशमीदिवसे “पाईणगामिणीए छायाए" पूर्वदिग्गामिन्यां छायायां "पोरिसिए" पौरुष्यां पाश्चात्यायां-चतुर्थप्रहरे अभिनिवृत्तायां जातायां प्रमाणप्राप्तायां कोटिप्राप्तायां | अग्रभागप्राप्तायां, सुव्रते दिवसे विजये मुहूर्ते चन्द्रप्रभायां शिविकायां आरूढं इति गम्यम् । सह-देवैर्मनुजैः असुरैः वर्तते या सा सदेवमनुजामुरा तया परिषदा-जनसमुदायेन समनुगम्यमानं अनुव्रज्यमानं भगवन्तं "अग्गेत्ति" अग्रे भगवतोऽग्रभागे शंखिकायैः परिवृतं । तत्र शखिका:-चन्दनगर्भशंखहस्ता मङ्गलकारिणः शंखवादका वा, चाक्रिका चक्रप्रहरणहस्ताः कुंभकारतैलिकादयो वा, लाङ्गलिका-गलावलम्बित
॥१२६॥ खर्णादिमयहलाकारधारिणो भविशेषाः कर्षका वा, मुखमाङ्गलिका:-मुखे मङ्गलं येषां ते मुखमाङ्गलिका मङ्गलपाठकाः, वर्धमानाः स्कन्धारोपितनराः, पुष्यमाणा-मागधाः पुरोहितस्थानीया मान्या वा, घण्टया चर
PRO
For Private and Personal Use Only