________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मानकोरण्टमाल्यदामशोभितं चन्द्रमण्डलसदृशं छत्रं । तदनन्तरं मणिकनकविचित्रं पादपीठसहितं सिंहासनं । तदनन्तरं १०८ आरोहणरहिताः तुरङ्गमाः । तदनन्तरं १०८ प्रधानकुञ्जराः । तदनन्तरं १०८ घण्टापताकानान्दीघोषनानाप्रकारप्रहरणैः भृताः रथाः । तदनन्तरं १०८ सुन्दररूपवन्तः पुरुषाः । तदनन्तरं हयानीकं, ततो गजानीकं, ततो रथानीकं ततः पदात्यनीकं ततः आकाशतलं उल्लिखन् लघुपताकासहस्रमण्डितो योजनसहस्रप्रमाणो रत्नमयो महान=उचैः महेन्द्रध्वजः । ततो वचः खड्गग्राहाः कुन्तग्राहाः, पीठग्राहाः = फलकग्रहाः, ततो हासकारकाः =नर्मकारकाः, कान्दर्पिका: उग्र भोगा राजन्याः, क्षत्रियाः = राजानो माण्डलिका : मन्त्रिणो= महामन्त्रिणः श्रेष्ठिनः सार्थवाहा देवा देव्यश्च सर्वेऽपि अग्रे गच्छन्तो भगवतो जयजयशब्दं प्रयुञ्जते । भगवतः पृष्ठे हस्तिस्कन्धारूढकोरण्टमाल्यदामसहितेन प्रियमाणछत्रेण विराजमानः श्वेतचामराभ्यां वीज्यमानः चतुरङ्ग सेनापरिवृतो नन्दिवर्धनो राजा अनुगच्छति ॥ इति ॥
अथ श्रीभगवान् कदा कया विच्छिया नगरमध्ये निस्सरति ?, तत्राह
ते काणं तेणं समर्पणं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले, तस्स णं मग्गसिरवहुलस्स दसमीपकखेणं पाईणगामिणीए छायाए पोरि - सीए अभिनिवाए पमाणपत्ताए सुबएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीआए
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
*-*-*-*