________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ५
॥ १२५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धवलछत्रं मस्तके धृत्वा तिष्ठति । ईशानकोणे च एका स्त्री गङ्गानीरभृतं भृङ्गारं गृहीत्वा तिष्ठति । आग्नेयकोणे तु एका स्त्री कनकदण्डमणिविचित्रं व्यजनं लात्वा भद्रासने निषीदति । ततः पूर्वं तां शिविकां यावता नन्दिवर्धनराजादिष्टाः पुरुषाः उत्पादयन्ति । अत्रान्तरे शक्रः शिविकाया दाक्षिण्यां उपरितन बाहानुत्पाटयति १ एवं ईशानेन्द्र उत्तरां उपरितन बाहां २ । चमरेन्द्रोऽधस्तनीं दाक्षिणात्यां वाहां ३ । वलीन्द्रोऽधस्तनीं उत्तरां बाहां ४ । शेषा भवनपति ५ व्यन्तर ६ ज्योतिष्क ७ वैमानिकेन्द्राः यथायोग्यं शिक्षिकां उत्पादयन्ति ॥ ततः शक्रेशानवर्जाः तां शिविकां उद्वहन्ति, शक्रेशानी तु चामराभ्यां वीजयतः । तदवसरे देवा दुन्दुभिं ताडयन्ति स्म । पञ्चवर्णानि पुष्पाणि सर्वत्र विक्षिपन्ति स्म ॥ आगच्छद्भिः देवैः विविधैर्गगनतलं कीदृशं शोभते स्म । यथा कुसुमितं वनखण्डं १ यथा वा शरत्काले पद्मसरः २ । अथवा यथा अतसीवनं कुसुमितं ३ अथवा यथा चम्पकवनं तिलकवनं पुष्पितं नन्दनवनं वा शोभते । पुनरपि स्त्रियो निज निजकर्तव्यंस्वकीय-स्वकीयव्यापारांश्च मुक्त्वा तुर्यनिर्घोषं श्रुत्वा, कौतुकोत्सुका विव्हलाः सत्यो भगवद्विलोकनाय समागताः । पुनः भगवतो दीक्षामहोत्सव विच्छित्तिं प्राह भगवति शिविकारूढे प्रव्रज्यायै गन्तुं प्रवृत्ते, तत्प्रथमतया रत्नमयानि अष्टौ मङ्गलानि पुरतः क्रमेण प्रस्थितानि । तथाहि - खस्तिकः १ श्रीवत्सः २ नंद्यावर्तः ३ वर्धमानः ४ भद्रासनं ५ कलशः ६ मत्स्ययुग्मं ७ दर्पणः ८ च । तदनन्तरं आलोकदर्शनीयानि क्रमेण पूर्णकलशभृङ्गारचामराणि । ततो गगनतलमुल्लिखन्ती लहलहायमाना वैजयन्ती । तदनंतरं विमलवैडूर्यरत्नमयं प्रलम्ब
For Private and Personal Use Only
XXX
दीक्षामहोत्सवः
॥ १२५ ॥