________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०५
स्थितिपतिवायां देवपूजनादि
॥११५॥
कुलधर्मेण लोकधर्मेण वा जाता जागरिका धर्मजागरिकारात्री धर्मजागरणं तां कुर्वन्ति । ततः एकादशे दिवसे व्यतिक्रान्ते-गते सति, पुनः “निवत्तिए असुइजम्मकम्मकरणे” निर्वर्तिते-कृते, अशुचीनां अशौचवतां जन्मकर्मणां प्रसवव्यापाराणां नालच्छेदनादीनां करणे। “संपत्ते-वारसाहे दिवसे"-संप्राप्त द्वादशाख्यदिवसे, अथवा द्वादशानां अह्नां समाहारो द्वादशाहं, तस्य दिवसो येन द्वादशाहः पूर्यते । तत्र "विउलं असणपाण-| खाइमसाइमं उबक्खडार्विति" मातापितरौ विपुलं विस्तीर्ण परिघलं, अशन १ पान २ खादिम ३ खादिम ४ चतुर्विधमपि आहारं उपस्कारयतो-रसवती निष्पादयतः उपस्कारयित्वा च । ततः किं कृत्वा, कीदृशौ सन्तो मातापितरौ किं कुर्वाते ?, तत्राहमित्तनाइनिययसयणसंबंधिपरिजणं नाए य खत्तिए अ आमतेइ, आमंतिता तओ पच्छा पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं पवराई वत्थाई परिहिया अप्पमहग्घाभरणालंकियसरीरा भोअणवेलाए भोअणमंडवंसि सुहासणवरगया तेणं मित्तनाइनिययसंबंधिपरिजणेणं नायएहिं खत्तिएहिं सद्धिं तं विउलं असणपाणखाइमसाइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा विहरंति ॥ १०४॥ व्याख्या-"मित्तनाइनियय" मित्राणि सुहृदः १, ज्ञातयः सजातीयाः मातृपितृम्रात्रादयः २, निजकाः
॥११५॥
For Private and Personal Use Only