________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुष्ठानं कुरुतः। पुनरपि "तइए दिवसे चंदसूरदंसणि करिति” तृतीये दिवसे चन्द्रसूरयोः दर्शनिका उत्सवविशेष कारयतो मातापितरौ यत्राधुना बालस्य दर्पणो दर्यते। तद्विधिरयम्-गृहस्थगुरुः स्फटिकमयीं रूप्यमयीं वा चंद्रमूर्ति विधिना अर्चित्वा स्थापयेत् । ततः तीर्थङ्करमातरं लातां सुवस्त्राभरणां करद्वये धृतपत्रां चन्द्रोदये प्रत्यक्षं चन्द्रसंमुखं नीत्वा इति वदति-"औं अहं चन्द्रोऽसि, निशाकरोऽसि, नक्षत्रपतिरसि, सुधाकरोऽसि, औषधीगर्भोऽसि, अस्य कुलस्य ऋद्धिं, वृद्धिं कुरु कुरु स्वाहा ।" इत्यादिचन्द्रमन्त्रमुच्चरन् मातृपुत्रयोः चन्द्रं दर्शयेत् । ततो माता सपुत्रा गुरुं प्रणमति, गुरुश्चाशीर्वादं ददाति । यथा-"सर्वोषधीमिश्रमरीचि-* जालः [राजिः], सर्वापदां संहरणप्रवीणः। करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः ॥१॥" ततः स्थापितां इन्दुमूर्ति विसर्जयेत् । कदाचित् सा रात्रिः चतुर्दशी अमावास्या वा स्यात् साने वा आकाशे चन्द्रो न दृश्यते तदा तस्यां एव सन्ध्यायां चन्द्रदर्शनं कार्यम् । अपरस्यां अपि रात्रौ चन्द्रोदये भवतु तत् । पुनः तस्मिन्नेव दिने प्रभाते वर्णमयीं ताम्रमयी वा सूर्यमूर्ति पूर्वविधिना संस्थाप्य गृहस्थगुरुरिति वदति-"ओं अहं सूर्योऽसि, दिनकरोऽसि, तमोऽपहोऽसि, सहस्रकिरणोऽसि,-जगचक्षुरसि, प्रसीद (प्रसन्नो भूत्वेत्यर्थः) अस्य कुलस्य तुष्टिं पुष्टिं प्रमोदं कुरु कुरु वाहा" इत्यादिसूर्यमनं उच्चरन् , मातृपुत्रयोः पूर्वसूर्य दर्शयेत् । ततो माता गुरुं प्रणमति, गुरुश्च आशीर्वादं ददाति, यथा-"सर्वसुरासुरवंद्यः, कारयिता सर्वधर्मकार्याणां । भूयात् त्रिजगच्चक्षुः, मङ्गलदस्ते सपुत्रायाः ॥१॥” इति ॥ ततो मातापितरौ षष्ठे दिवसे “धम्मजागरि" धर्मेण
कम्प० २०
For Private and Personal Use Only