________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र दण्डः अपराधानुसारेण राजग्राह्यं द्रव्यम् , कुदण्डस्तु कारणिकानां प्रजापराधान्महत्यपराधे अल्पं राजग्राह्यम् । कचित् 'अदण्डकुदण्डिम' इति पाठः, तत्र दण्डलभ्यं द्रव्यं दण्डः, शेषं पूर्ववत् । पुनः कीदृशीं| *स्थितिपतिताम् ? । अधरिमं न धरिमंऋणं यस्यां सा ताम् , ऋणमुत्कलत्वात् । कुत्रापि 'अहरिमं' इति पाठः,
केनापि कस्यापि अहरणात् । पुनः कीदृशी स्थितिपतिताम् । गणिकावरैः विलासिनीप्रधानः, "अगणियत्ति"। सपाटे, अगणितः प्रतिस्थानाभावात् । असंख्यैः नाटकीयैः नाटकप्रतिबद्धः पात्रैः कलिताम् । पुनः कीदृशीं स्थितिपतिताम् ? । अनेकतालाचरानुचरितांप्रेक्षाकारिसेविताम् । पुनः कीदृशी स्थितिपतिताम् ? । अनुभृताआनुरूप्येण वादनार्थ उत्क्षिप्ताः, अनुद्भूता वा वादनार्थ अपरित्यक्ता मृदङ्गा यस्यां सा ताम् । पुनः कीदृशीं |स्थितिपतिताम् ?। अग्लानानि माल्यदामानि=पुष्पमाला यस्यां सा ताम् । पुनः कीदृशी स्थितिपतिताम् ? । प्रमुदितो हृष्टः प्रक्रीडितश्च क्रीडितुं आरब्धः सहपुरजनेन जनपदो लोको यस्यां सा ताम् । कापि “पमुइअपकीलिअजणाभिरामा” इति पाठः, तत्र प्रमुदितः प्रक्रीडितैश्च जनैः अभिरामां । वाचनान्तरे-"विजयवेजइअं" दृश्यते, तत्र अतिशयेन विजयो विजयविजयः, स प्रयोजनं यत्र सा विजयवैजयिकी ताम् । ततो राजा किं करोति ?, तत्राह
तए णं से सिद्धत्थे राया दसाहियाए ठिइवडियाए वट्टमाणीए सइए य साहस्सिए य
XXXXXXXXXXX
For Private and Personal Use Only