________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजदेयद्रव्यवर्जन
कल्पसूत्रं युक्त इति गम्यम् । एवं "महया जुईए” युक्तिः (इत्यत्र) इष्टवस्तुघटनात्, द्युतिः वा दीप्तिः आभरणादीनां कल्पलता
तया । पुनः महता बलेन सैन्येन, पुनः महता वाहनेन शिविकावेसरादिना, पुनः महता समुदयेन संगताव्या०५
भ्युदयेन निजपरिवारादिसमुदयेन वा, पुनः महातुर्याणां यमकसमकं-युगपद्वादितेन ध्वनितेन । पुनः शंखः= ॥११३॥ कम्युः, पणवो मृत्पडहः, भेरी-ढक्का, 'दमामा' इति नाम्नी, झल्लरी-चतुरङ्गुलनालिः करटिसदृशी वलयाकारा
उभयतो नद्धा इत्यन्ये । खरमुखी काहला, हुडुक्का-तिविलितुल्या, मुरजो-मर्दला, मृदङ्गो-मृन्मयः, दुन्दुभिः देववाद्यम् , एतेषां निर्घोषो-महाध्वनिः, नादितं च प्रतिशब्दः तद्रूपो योरवः तेन । पुनः कीदृशी स्थितिपतितां? "उस्सुक" उच्छुल्कां उन्मुक्तशुल्का, शुल्कं-विक्रेतव्यभाण्डं प्रति मण्डपिकायां राजदेयं द्रव्यम् । पुनः कीदृशी स्थितिपतिताम् ?। उत्करां-उन्मुक्तकरां, करोगवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम्, उन्मुक्तं
कृष्टं कर्षणं यस्यां, लभ्येऽप्याकर्षणनिषेधात्, अथवा उत्कृष्टां प्रधानाम् । पुनः कीदृशी स्थितिपतिताम् || * अदेयां विक्रेयनिषेधेन केनापि न कस्यापि देयम् , द्रव्येन विना दातव्यम् । पुनः कीदृशी स्थितिपतिताम् ? |
अमेयां क्रयविक्रयनिषेधादेव । पुनः कीदृशी स्थितिपतिताम् ?। अभटप्रवेशां, न विद्यते भटानां राजाज्ञादायिनां भट्टपुत्रादीनां प्रवेशः कुटुम्बिगृहेषु यत्यां सा ताम् । पुनः कीदृशी स्थितिपतिताम् ? । अदण्डिमकोदण्डिमं दण्डेन निर्वृत्तं दण्डिम, कुदण्डेन निवृत्तं कुदण्डिमं राजद्रव्यं तद्यमपि नास्ति यस्यां सा ताम् ।
XXXXXXXXXXX
For Private and Personal Use Only