________________
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पमत्र कल्पलता व्या०५
बन्दिमुक्ततादि, नगरशोभाकरणादेशच
॥११०॥
Kaiko.XOXOXOXOXOXO-KOIXOXOXOXO
अथ-इन्द्रजन्मोत्सवानन्तरं प्रियभाषितानाम्नी दासी सिद्धार्थनृपं पुत्रजन्मनिवेदनेन वर्धापयति स्म। राज्ञाऽपि हृष्टतुष्टेन दास्या मुकुटवर्जानि आभरणानि दत्तानि, मस्तकं क्षालयित्वा, दासीनामकर्म दूरीकृतम् इति ॥
अथ प्रभाते सिद्धार्थराजा किं कृतवान् ?, तत्राहतए णं से सिद्धत्थे खत्तिए भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पञ्चसकालसमयंसि नगरगुत्तिए सद्दावेइ, सदावित्ता एवं वयासी ॥ ९९ ॥ खिप्पामेव भो देवाणुप्पिया! कुंडपुरे नगरे चारगसोहणं करेह, करिता माणुम्माणवद्धणं करेह, माणुम्माणवद्धणं करित्ता ॥ व्याख्या-"तए णं से सिद्धत्थे" ततश्च सिद्धार्थो राजा क्षत्रियः भवनपतिव्यन्तरज्योतिर्वासिविमानवासिदेवैः तीर्थकरजन्माभिषेकमहिमायां कृतायां सत्यां, प्रभातकालसमये "नगरगुत्तिए" नगरगुप्तिकान्= पुररक्षकान् “सद्दावेई" समाकारयति, “सद्दावित्ता" समाकार्य च एवं अवादीत्-'भो देवानुप्रियाः! क्षिप्रं शीघ्रं क्षत्रियकुण्डग्रामे चारकशोधनं बंदिमोचनं कुरुत कारयत च । एवं "माणुम्माणवद्धणं" मानं रसधान्यविषयं, उन्मानं च तुलारूपं तयोः वर्धनं कुरुत, कारयत च । पुनः सिद्धार्थों राजा किं कृतवान् ?, तत्राह
॥११०॥
For Private and Personal Use Only