________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनरपि चत्वारि वृषभरूपाणि कृत्वा, अष्टशृङ्गैः दुग्धधाराभिः स्नानाभिषेकं इन्द्रः कारितवान् । लानाभिबेके कृते मेरुः कीदृशो जातः ?, तत्र कवेः उत्प्रेक्षा - सर्वपर्वताः सप्तशतानि सप्तपञ्चाशच ७५७ तेषां मध्ये | मेरुपर्वतस्य राज्याभिषेकः कृतः, स्लावनीरैः स्नानाभिषेको जातः । नीरनिर्झराणि मुक्ताहाराः, भगवतो मूर्तिः मस्तके मुकुटं देववाद्यानि वाद्यानि, अप्सरो गीतानि गीतानि इति । ततो देवाः गीतगानतानमाननृत्य वाद्यादिकं आरात्रिकापर्यन्तं जन्मोत्सवं कृत्वा, भगवन्तं मातुः पार्श्वे मुक्त्वा, भगवत्प्रतिविम्बं संहृत्य, | अवखापिनीं निद्रां दूरीकृत्य, कुण्डलयुगलं भगवत उच्छीर्षे मुक्तवा, श्रीदामरत्नदामजटितं स्वर्णकन्दुकं उल्लोचे मुक्त्वा, स्वामिनोंऽगुष्ठे अमृतं संन्यस्य, रत्नमयपछे रूप्यमयतण्डुलानां अष्टौ मङ्गलानि लिखित्वा, द्वात्रिंशद्रनस्वर्ण कोटीः वैश्रमणदेवः इन्द्रवचनेन सिद्धार्थराजगृहे वर्षति स्म । तत इन्द्र आभियोगिकसुरैः उद्घो षणां वाढं दापयामास - "भो भो ! यः कोऽपि भगवतो भगवतो मातुर्वा मनसापि अशुभं चिन्तयिष्यति तस्य शिरः आर्य (अर्जुन) मञ्जरीवत् सप्तधा स्फुटिष्यति ।" ततः चतुःषष्टिरपि इन्द्राः असंख्यातैः [इन्द्रेः] || देवैश्च सहिताः जिनजन्मोत्सवं कृत्वा, नन्दीश्वरे अष्टाहिकां कृत्वा, स्वस्वस्थानं जग्मुः ।
*॥ इति चतुःषष्टिइन्द्रकृत - जन्मोत्सवः ॥ ॐ
१ वैमानिकेन्द्राः १०। भवनपतीन्द्राः २० व्यन्तरेन्द्राः ३२ । ज्यौतिष्केन्द्रौ २ । इति चतुःषष्टिः ६४ ॥
For Private and Personal Use Only
•*•*•**•*