________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ५ ॥ १०८ ॥
1061
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णौऽपि आकाशमार्गः सङ्कीणों जातः । तथा केऽपि देवा अग्रे गन्तुकामा मित्रत्वं परित्यज्य अग्रे ययुः । केऽपि दाक्षिण्यं परित्यज्य, केऽपि प्रतिज्ञां परित्यज्य अग्रे गच्छन्ति स्म । केचिद्देवाः वदन्ति-'भो मित्र ! क्षणं प्रतीक्षत्र ।' अपरे देवाः वदन्ति- 'भो ! न वक्तव्यम्, मौनं कुरु, एतादृशे महोत्सवे कः कं प्रतीक्षते ? ।' "पर्ववासराश्च" संकीर्णा एव भवन्ति । तथा आकाशे आगच्छतां देवानां मस्तके यदा चन्द्रकिरणा लग्नाः तदा देवाः निर्जरा अपि सजरा इव दृश्यन्ते स्म । तथा तारका अपि मस्तकोपरि रूप्यघटाकाराः, कण्ठे ग्रैवेयकाभरणसमाः, देहे च प्रखेदबिन्दुसमाः शोभन्ते स्म । ततो नन्दीश्वरे विमानानि संक्षिप्य जिनजन्मस्थाने समागत्य, जिनं जिनमातरं च त्रिः प्रदक्षिणीकृत्य, वन्दित्वा नमस्थित्वा च इन्द्रो वदति स्म - 'हे रत्नकुक्षिधारिके ! हे विश्वदीपिके ! तुभ्यं नमोऽस्तु ! अहं शक्रोऽस्मि, प्रथमदेवलोकात् आगतोऽस्मि । चरमतीर्थङ्करस्य जन्मोत्सवं करिष्यामि । हे देवि ! त्वया न भेतव्यम् ।' इत्युक्त्वा अवस्खापिनीं निद्रां दत्त्वा जिनप्रतिबिम्बं जिनमातृपार्श्वे मुक्तवा, भगवन्तं करसंपुटे गृहीत्वा चलितः । तत्र पञ्च रूपाणि इन्द्रेण सर्वश्रेयोलाभं वाञ्छता कृतानिएकेन रूपेण तीर्थङ्करो गृहीतः, द्वाभ्यां रूपाभ्यां चामरे गृहीते । एकेन रूपेण छत्रं गृहीतम् । एकेन रूपेण वज्रं गृहीत्वा अग्रे चलितः ५ । तस्मिन् समये इन्द्रो हर्षेण एवं भावयति स्म - 'अद्य मम सहस्रनेत्राणि सफलानि जातानि यैः कृत्वा अहं भगवतः संपूर्णरूपं पश्यामि ।' पुनरपि अग्रगामिनो देवाः पृष्टगान् देवान् स्तुवन्ते'धन्याः पृष्टगा देवाः ! ये भगवंतं सम्यक् पश्यन्ति, स्वकीये नेत्रे च पश्चात् समीहन्ते । एवं पृष्ठगा अग्रगा
For Private and Personal Use Only
इन्द्रकृत - जन्मोत्सवः
॥ १०८ ॥