________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ इन्द्रजन्मोत्सवमाह -
तस्मिन् समये शक्रस्य = इन्द्रस्य आसनं चचाल । ततः अवधिज्ञानप्रयुञ्जानेन सौधर्मेन्द्रेण श्रीमहावीरस्य जन्मसमयो ज्ञातः । ततः इन्द्रः सुघोषां एकयोजनप्रमाणां घण्टां हरिणैगमेषिदेवपार्श्वात् अवादयत् । तद्वादने च सर्वदेवलोकमध्यवर्तिसर्वविमानघंटानादं चक्रुः । ततः सर्वेऽपि देवा इन्द्रादेशं ज्ञात्वा इन्द्रसमीपे समागताः । इन्द्रोऽपि पालकनाम्ना देवेन कृते लक्षयोजनप्रमाणे पालकनामविमाने उपविष्टः । इन्द्रस्य अग्रतोऽष्टौ अग्रमहिष्य उपविष्टाः, इन्द्रस्य वामपार्श्वे सामानिकदेवाः स्थिताः, इन्द्रस्य दक्षिणपार्श्वे तिसृणां सभानां देवाः स्थिताः, इन्द्रस्य पृष्ठतः सप्तापि अनीकानि स्थितानि, अन्यैः अपि बहुभिरपि देवैः परिवृतः सिंहासनस्थो गीयमानगुणग्रामः सन् इन्द्रश्चचाल । एवमन्येऽपि देवाः स्वस्वविमानानि आरुत्य चेलुः । तेऽपि केऽपि इन्द्रस्य आदेशात्, केऽपि मित्रस्य अनुवर्तनात्, केऽपि स्वस्त्रीणां प्रेरणात्, केऽपि तीर्थङ्करस्य रागात्, केऽपि कौतुकात्, केऽपि आश्चर्यात्, केऽपि भक्तितः । एवं सर्वेऽपि सुरा नानाप्रकारैः वाहनैर्युक्ताः इन्द्रेण समं चलिताः । तस्मिन् प्रस्तावे नानाप्रकारैः वाद्यनिर्घोषैः = घण्टानां कणितशब्दैः देवानां कोलाहलैश्च शब्दाऽद्वैतं विश्वं जातम् । मार्गागमने सिंहवाहनस्थो देवो हस्तिवाहनस्थं देवं वक्ति- 'भो ! त्वदीयं वाहनं गजं दूरीकुरु, मदीयवाहनः केसरी दुर्धरोऽस्ति, ततो हनिष्यति १, एवं अश्वस्थो वेसरस्थं वक्ति २, गरुडस्थः सर्पस्थम् ३, चित्रकस्थः छागस्थम् ४, इत्यादि । एवं सुराणां कोटिकोटीभिर्वाहनैः विमानैश्च विस्ती
For Private and Personal Use Only