________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ५
॥ १०७ ॥
-*****CX X
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिष्ठन्ति-रूपा १, रूपासिका च २, रूपकावती ३, सुरूपा ४ एता आगत्य, जिनं जिनमातरं च नत्वा, भगवतो नालं चतुरङ्गुलतः छित्त्वा खातोदरे क्षिपन्ति स्म । पश्चात् तं खातोदरं वैडूर्यरत्नैः पूरयित्वा तस्योपरि दुर्वया बद्धं पीठं चक्रुः ५६ ।
ततो जन्मगृहात् पूर्वस्यां १, दक्षिणस्यां २, उत्तरस्यां ३ च दिशि केलिगृहत्रयं चक्रुः । ततो दक्षिणकेलिगृहे भगवन्तं भगवतो मातरं च नीत्वा द्वयोः अपि अभ्यङ्गं कुर्वन्ति स्म । ततः पूर्वकेलिगृहे नीत्वा स्नानं कारयित्वा विलेपनवस्त्रालङ्काराणि परिधापयामासुः । तत उत्तरकेलिगृहे अरणिकाष्ठाभ्यां अग्निं उत्पाद्य, चन्दनैः होमं कृत्वा, रक्षापोहलिकां द्वयोः हस्तयोः बबन्धुः । ततो 'हे भगवन् ! त्वं पर्वतायुः भव !' इति आशिषं दत्त्वा, अश्मगोलको कर्णयोः आस्फाल्य, जन्मस्थाने जिनं जिनमातरं च नीत्वा, स्वखदिक्षु स्थित्वा, गीतानि गायन्ति स्म । एताश्च षट्पञ्चाशत् ५६ दिकुमार्यः प्रत्येकं त्रित्रिसहस्र महत्तरादेवीभिः, चतुः| सहस्रसामानिकदेवीभिः, षोडशसहस्रैः अङ्गरक्षकदेवैः सप्तभिरनीकैः, सप्तभिरनीकाधिपतिभिः, अन्यैः अपि महर्द्धिभिः देवैः सहिताः आभियोगिक देवकृतैः योजनप्रमाणैः विमानैः अत्र आयान्ति । ततो भगवतो जन्मोत्सवं पूर्वविधिना कृत्वा, कृतार्थतां मन्यमानाः खखस्थानेषु गताः ॥
-→→ || इति षट्पंचाशत् - दिकुमारीकृत-जन्मोत्सवः ॥-
For Private and Personal Use Only
ToXXoxo)
दिक्कुमारी
कृत
जन्मोत्सवः
॥ १०७ ॥