________________
Shri Mahavir Jain Aradhana Kendra
•X.XXX.X
www.kobatirth.org
समाहारा सुप्रदेत्ता, सुप्रबद्धा यशोधरा । लक्ष्मीवंती शेषर्वती, चित्रगुप्सा वसुन्धरा ॥ ४ ॥ एता अपि आगत्य च जिनं जिनमातरं च नत्वा जलभृङ्गान् स्नानार्थं करे कृत्वा भगवतोऽग्रे गीतगानं कुर्वन्ति ३२ ।
पुनरपि अपरा अष्टौ दिक्कुमार्यः तत्रैव त्रयोदशे रुचकद्वीपे पश्चिमदिग्व्यवस्थितगिरिकूटेषु अष्टसु याः तिष्ठन्ति
इलादेवी सुदेवी, पृथिवी पद्मावती च । एकनांसा नवमिका, भद्रा सीतेति नामतः ॥ ५ ॥ अपि आगत्य जिनं जिनमातरं च नत्वा, वातार्थं व्यजनं हस्ते गृहीत्वा भगवतोऽग्रे तिष्ठन्ति ४० ।
Acharya Shri Kailassagarsuri Gyanmandir
पुनरपि अपरा अष्टौ दिकुमार्यः तत्रैव त्रयोदशे रुचकद्वीपे उत्तर दिव्यवस्थित गिरिकूटेषु अष्टसु याः तिष्ठन्तिअलंबुसा मितकेशी, पुण्डरीका च वारुणी । हांसा सर्वप्रभा श्री ही, अष्टौ दिग् रुचकाद्रितः ॥ ६ ॥ एता आगत्य, जिनं जिनमातरं च नत्वा भगवतोऽग्रे चामराणि ढालयन्त्यः तिष्ठन्ति ४८ । पुनरपि अन्याः चतस्रः तत्रैव त्रयोदशे रुचकद्वीपे चतुर्विदिव्यवस्थितगिरिकूटेषु चतुर्षु याः तिष्ठन्ति - विचित्रा १, चित्रकनका २, तेजा ३, सौदामिनी ४ ॥ एता अपि आगत्य जिनं जिनमातरं च नत्वा, दीपं हस्ते गृहीत्वा भगवतोऽग्रे तिष्ठन्ति ५२ ।
पुनरपि अपराः चतस्रो दिकुमार्यः तत्रैव त्रयोदशे रुचकद्वीपे अभ्यन्तरव्यवस्थितगिरिकूटेषु चतुर्षु याः
For Private and Personal Use Only
CXXXX X**