________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता
व्या० ५
॥ १०६ ॥
*6/0
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ अष्टौ दिकुमार्यः अधोलोकवासिन्यः याः गजदन्ताकारपर्वतानां अधस्तात् भवनवासेषु तिष्ठन्ति - भोगंकेरा भोगवंती, सुभोग भोगमालिनी । तोयधारौ विचित्र च, पुष्पमाला अनन्दिर्ता ॥ १ ॥ एता अष्टौ आसन कम्पात् अवधिज्ञानेन भगवतो जन्मकल्याणकं ज्ञात्वा आगत्य संवर्तवातेन जन्मगृहात् योजनं यावत् पृथिवीं शोधयित्वा भगवन्तं भगवतो मातरं च नत्वा ईशानकोणे सूतिगृहं चक्रुः ८ । अथ अष्टौ दिकुमार्यः ऊर्ध्वलोकवासिन्यः या नन्दनवन कूटेषु तिष्ठन्ति—
मेघंकरा मेघवती, सुमेघां मेघमालिनी । च सुवत्सा वर्क्स मिश्रा, बारिषेणां बलाहिकी ॥ २ ॥ एता अष्टौ आगत्य भगवन्तं भगवतो मातरं च नत्वा पूर्वशोधितायां योजनप्रमाणभूमिकायां सुगन्धपानीयसुगन्धपुष्पवृष्टिं चक्रुः १६ ।
ततः पुनरपि अष्टौ दिक्कुमार्यः पूर्वरुचकवासिन्यो या रुचकाभिधानस्य त्रयोदशद्वीपस्य प्राकाराकारेण मण्डलव्यवस्थितस्य उपरि पूर्वदिग्व्यवस्थितेषु अष्टसु कूटेषु तिष्ठन्ति
अथ नन्दोत्तरा नन्दों, आनन्दा नन्दिवर्धना । विजयाँ वैजयन्ती च जयन्ती अपराजिता ॥ ३ ॥ एता अपि अष्टौ आगत्य भगवंतं भगवतो मातरं च नत्वा आलोकार्थं भगवतोऽग्रे दर्पणं धरन्ति २४ । पुनरपि अष्टौ दिकुमार्यः तत्रैव रुचकाभिधानत्रयोदशद्वीपे दक्षिणदिगव्यवस्थितगिरिकूटेषु अष्टसु याः तिष्ठन्ति -
For Private and Personal Use Only
Xxxx ***********
दिकुमारीकृत
जन्मोत्सवः
॥ १०६ ॥