________________
Shri Mahavir Jain Aradhana Kendra
***-0XXX XXXCXX
www.kobatirth.org
च आभरणवासं च पत्तवासं च पुष्कवासं च फलवासं च वीअवासं च मल्लवासं च गंधवासं च चुण्णवासं च वण्णवासं च वसुहारवासं च वासिं ॥ ९८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - "जं रयणि" पुनः यस्यां रात्रौ भगवान् जातः, तस्यां रात्रौ बहवो वैश्रमणस्य धनदस्य कुण्डस्य आज्ञाया धारिणः तिर्यगजृम्भका देवाः सिद्धार्थराजस्य भवने हिरण्यादीनां वृष्टिं कुर्वन्ति १, तत्र हिरण्यं = रूप्यं अघटितवर्ण, सस्य वर्ष अल्पतरं, वृष्टिस्तु महती, सुवर्णस्य घटितकनकस्य वृष्टिं कुर्वन्ति, २, वज्रस्य हीरादेः वृष्टिं कुर्वन्ति ३, वस्त्रस्य बहुमूल्यदेवदृष्यादेः वृष्टिं कुर्वन्ति ४, आभरणस्य मुकुटकुण्डलादेः वृष्टिं कुर्वन्ति ५, पत्रस्य नागवल्लीपत्रादेः वृष्टिं कुर्वन्ति ६, पुष्पस्य मालतीचंपकादेः वृष्टिं कुर्वन्ति ७, फलस्य नारिकेलादेः वृष्टिं कुर्वन्ति ८, वीजस्य शालिप्रमुखबीजादेः वृष्टिं कुर्वन्ति ९, मालायाः ग्रथितपुष्पादेः वृष्टिं कुर्वन्ति १०, गन्धस्य कोष्ठपुटपाकादेः वृष्टिं करोति ११, चूर्णस्य गन्धद्रव्यसंबन्धिनो वृष्टिं कुर्वन्ति १२, वर्णस्य चन्दनादेः वृष्टिं करोति १३, वसूनि रत्नानि तेषां धारा तस्या वर्षं कुर्वन्ति १४॥ पुनः भगवज्जन्मसमये अचेतना अपि सर्वदिशो मुदिता इव प्रसेदुः । पुनः वायवोऽपि सुखस्पर्शाः सन्तो मन्दं मन्दं वान्ति स्म । पुनः त्रिभुवने महान् उद्योतो जातः । पुनः नारका अपि क्षणं हर्ष प्रापुः । पुनः पृथिव्यपि उच्छ्वासं प्राप्ता । अथ अत्र समये षट्पञ्चाशत् ५६ दिक्कुमार्य आगत्य भगवतो जन्मोत्सवं चक्रुः । तासां अनुक्रमं प्राह
For Private and Personal Use Only
*-*-*-*-*-*