________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिनः स्तुवन्ति । अनया रीत्या इन्द्रो मेरुपर्वतस्य शृङ्गस्थ पाण्डुकवने मेरुचूलाया दक्षिणदिशि अतिपाण्डकम्बलाशिलातले श्रीजिनं उत्सङ्गे कृत्वा पूर्वदिक्संमुखो निषीदति स्म । देवाः सर्वेऽपि भगवत्समीपे समागताः। ततो द्वादशदेवलोकखामी अच्युतेन्द्रः आभियोगिकदेवान् इति आदिशति स्म-'भो देवाः ! यूयं कलशैः गङ्गापद्मद्रहादितीर्थानां पानीयमानयत । परं ते कलशाः कीदृशाः कियन्तश्च ?, तदाह
एकसहस्राष्टौ कलशाः १००८ सुवर्णमयाः१,१००८ रूप्यमयाः२,१००८ रत्नमयाः ३,१००८ स्वर्णरूप्यमयाः SI४,१००८ स्वर्णरत्नमयाः ५, १००८ रूप्यरत्नमयाः ६, १००८ सुवर्णरूप्यरत्नमयाः ७, १००८ मृन्मयाः ८। सर्वेऽपि
अष्टौ सहस्राः चतुःषष्टिश्च (८०६४), सर्वेऽपि कलशा योजनाननाः। एवं भृङ्गारः। १ दर्पण २ रनकरण्डक ३ सुप्रतिष्ठक ४ स्थाल ५ पात्रिका ६ पुष्पचङ्गेरिका ७ आदीनि पूजाया उपकरणानि प्रत्येकं प्रत्येक एक सहस्रं अष्टौ च ज्ञेयानि । एवं अच्युतेन्द्रो गङ्गादीनां महानदीनां चतुर्दशलक्षषट्पञ्चाशत्सहस्र(१४५६०००)मितानां पानीयम् , मागधादितीर्थानां मृत्तिका, पद्मद्रहादीनां पद्मानि, क्षुल्लहिमवर्षधरवैतात्यविजयवक्षस्कारदेवकुरूत्तरकुरुभद्रशालनंदनवनादीनां सिद्धार्थ १ पुष्प २ तुबर ३ प्रमुखगन्धान् सर्वोषधीश्च जलानि च आनाय
यत् । अथ ते देवाः तीर्थजलेन भृतान् कुम्भान् हृदये धरन्तः आकाशमार्गे आगच्छन्तः कीदृशाः सम्भाकल्प०१९४ा
व्यन्ते? । संसारसमुद्रं तरीतुमिव हृदयाने कुंभा धृताः सन्ति । अथवा भावद्रुमं सिञ्चन्तीव २, अथवा
For Private and Personal Use Only