________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
रवेः मेषराशिः उच्चः १, एवं चन्द्रस्य वृषः २, मंगलस्य मकरः ३, बुधस्य कन्याराशिः४, बृहस्पतेः कर्कराशिः ५, शुक्रस्य मीनराशिः ६, शनैश्चरस्य तुलाराशिः ७, राहोः मिथुनराशिः (?) तेषाम् फलमाहत्रिभिः उच्चग्रहै: नरेन्द्रो भवेत् , पञ्चभिः वासुदेवः, षड्भिः चक्रवर्ती, सप्तभिः उचैस्तीर्थकरो भवेत् ॥१॥ अत्र तु सर्वग्रहाणां उच्चत्वं अंशकादि अपेक्ष्य घटनीयम् । तथा हिसूर्यो दशमे त्रिंशांशे वर्तमानः परमोचः १, एवं चन्द्रः तृतीये त्रिंशांशे २, मंगलो अष्टाविंशे त्रिंशांशे ३, वुधः पंचदशे त्रिंशांशे ४, बृहस्पतिः पंचमे त्रिंशांशे ५, शुक्रः सप्तविंशे त्रिंशांशे ६, शनैश्चरो विंशतितमे त्रिंशांशे वर्तमानः परमोचो ज्ञेयः पुनः क सति । "पढमे चंदत्ति” प्रथम प्रधाने, चन्द्रयोगे चन्द्रबले अर्थात् नपादीनाम् । पुनः सौम्यासु
१ "अज-वृषभ-मृगा-ङ्गना-कुलीरा, झप-वणिजौ च दिवाकरादितुङ्गाः।
दशशिखिमनुयुक्तिथीन्द्रियांशैः, त्रिनवकविंशतिभिश्च तेऽस्तनीचाः॥" इति बृहज्जातके (राशि० अ०१ श्लो०१३) सूर्यादीनां सप्तानां ग्रहाणां मेघाइयो राशयः श्लोकोक्ताः क्रमविशिष्टा उच्चस्थानानि । स्वस्खतुङ्गा(उच्चा)पेक्षया सप्तमस्थानानि नीचानि । अत्र उच्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रमं उच्चेषु परमोचाः, नीचेषु परमनीचाः इति श्लोकार्थः ।। दा मेषः सूर्यः १०। वृपः सोमः ३॥ मृगः मंगलः २८। कन्या बुधः १५। कर्कः गुरु५। मीनः शुक्रः २७ तुलाः शनिः २०॥ इति ।
१ प्रथमे चंद्रयोगे प्रथमशब्दस्य प्रधानार्थत्वात् , चंद्रयोगचंद्रयले अर्थात् नृपादीनाम् अथवा तदानीं सूर्यस्य मेष स्थितत्वात् |
कल्प०१८
For Private and Personal Use Only