________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-01-01-06
कल्पसूत्रं
चन्द्रिकया ध्वस्त
कल्पलता
॥ १०३ ॥
रजोवृष्ट्याद्यभावात् शान्तासु । पुनः वितिमिरासु भगवजन्मकाले सर्वत्र उद्योत भावात्, ध्वान्तासु वा, विशुद्धासु उल्कापात दिग्दाहाद्यभावात् निर्मलासु दिक्षु सत्सु । पुनः सर्वशकुनेषु काकोव्या० ४ * लपोतक्यादिषु, “जइएस ति" जयोऽस्यास्ति एषु । जयिनो राजादीनां जयदायिनः तेषु । पुनः मारुते वाय "पयाहिणत्ति" प्रदक्षिणश्चासौ अनुकूलश्च भगवतः प्रदक्षिणवाहित्वात् अनुकूलः तस्मिन्, अथवा प्रदक्षिणः प्रदक्षिणावर्तत्वात्, अनुकूलः सुरभिशीतलत्वात् । पुनः किंविशिष्टे मारुते ? । भूमिसर्पिणि मृदुत्वात्, चण्डवातो हि उच्चैः सर्पति, तादृशे बाते प्रवातुं आरब्धे, “निष्पन्ना" पुनः एवंविधे काले ऋतौ । किंविशिष्टे काले ?। निष्पन्नसर्वशस्या मेदिनी यत्र स तस्मिन् । पुनः 'जनपदेषु' जनपदवास्तव्यलोकेषु एवंविधेषु सत्सु । किंविशिष्टेषु जनपदेषु ? । प्रमुदिताः सुभिक्षसौख्यादिना प्रक्रीडिताः वसन्तादिषु क्रीडितुं आरब्धाः, ततो विशेषणकर्मधारयः तेषु । अत्र बहुषु आदर्शेषु “उच्चद्वाण" इत्यादि न दृश्यते । पुनः " पुवरत्तेति" अर्धरात्रे हस्तोतरानक्षत्रे उत्तरफाल्गुनीनक्षत्रे चन्द्रेण सह वर्तमाने, “आरोग्गा" अनाबाधा माता "आरोग्गं" अनावाधं "दारयं पयाया" दारकं पुत्रं प्रजाता= सुषुवे । 'जनि' धातुः सोपसर्गत्वात् सकर्मकः इति ॥ भगवतश्च मध्यरात्रे जन्मभावात् तदा च मकरलग्नस्य संभवात् प्रथमायां चान्द्रयां होरायां 'समराशौ चंद्रतीक्ष्णांशोरिति वचनात्' | अन्यथा वा सुधिया वृद्धोपदेशात् भावनीयम् । इति संदेहवि० ॥
- इति श्रीमहावीरदेवस्य जन्मकल्याणकम् -
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
भगवतो
जन्म
कल्याणकं
11203 11