________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
आसने उपविशति पुण्णदोहला' तत्रयाः कर्णयोः कुण्डल
akakakakakeX6******
न अपूर्णमनोरथेत्यर्थः । अत एव व्यवच्छिन्नदोहदात्रुटिताकाला । दोहदव्यवच्छेदस्यैव प्रकर्षाधानाय आहव्यपनीतदोहदा, सुखं सुखेन गर्भाऽनायाधया "आसइ ति" आश्रयति आश्रयणीयं स्तम्भादि, शेते निद्रया, तिष्ठति ऊर्जा, निषीदति आसने उपविशति, त्वम्-वर्तयति-निद्रां विना शय्यायां, विहरति कुहिमे । अत्र |त्रिशलाया विशेषणं प्रोक्तम्-“पसत्थदोहला संपुण्णदोहला” तत्र को दोहद उत्पन्नः ?, कथं च पूरितः? । तत्संबन्धः कथ्यते-एकदा त्रिशलाया दोहद उत्पन्नो यदुत इन्द्राण्याः कर्णयोः कुण्डले स्वयं परिदधामि, परं तस्य दुष्करत्वेन अपूरणात् प्रत्यहं दुर्मना जाता। तत इन्द्रेण आसनकम्पात् अवधिना ज्ञातम् , । ततः तत्पूरणोपायार्थ इन्द्राणीप्रमुखं अप्सरोवृन्दं लात्वा, एकस्मिन् दुर्गमे पर्वतान्तर्वर्तिनि विषमे भूमिस्थाने, देवनगर स्थापयित्वा इन्द्रः स्थितः। सिद्धार्थः सैन्यं कृत्वा निकटे गत्वा इन्द्रात् कुण्डले याचते स्म । इन्द्रो न ददाति, युद्धाय सजो जातः। ततः सिद्धार्थेन इन्द्रेण समं युद्धं कृतम् । इन्द्रः समर्थोऽपि जानन भग्नो नष्ट्वा गतः। ततः सिद्धार्थेन अप्सरोवृन्दं लुण्टितम्, इन्द्राण्याः पूत्कुर्वत्याः बलात् कुण्डले गृहीत्वा आनीय त्रिशलायै स्वप्रियायै दत्ते, तया च परिहिते, दोहदः संपूर्णः संजातः।
अथ त्रिशला गर्भमरालसा सखीजनेन प्रत्यहं एवं शासिष्यते । तथा हि"मन्दं सश्चर, मन्दमेव निगद व्यामुञ्च कोपक्रम, पथ्यं भुक्ष्व बधान नीविमनघं, मा अट्टहासं कृथाः। आकाशे न च शेष्व, नैव शयने नीचैबहिर्गच्छ मा, देवी गभरालसा निजसखीवर्गेण शासिष्यते ॥१॥
XOXOS
Fer Private and Personal Use Only