________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
कल्पसूत्रं कल्पलता व्या०४
त्रिशलाया गर्भपोषणं दोहदपूर्तिश्च
॥१०१॥
क्षेपनादिमारुत-आयाससेवनात्, उन्मत्तो गर्भो भवत्येव, एतानि परिहरेत्' इति सुश्रुते शारीरे (२ अध्याये, २५) । पुनः भोजनाच्छादनगन्धमाल्यैः, तत्र भोजनं आहारग्रहणम् , आच्छादनं-प्रावरणम्, गन्धाः पटवासादयः, माल्यानि पुष्पमालाः तैः । किंविशिष्टं आहारग्रहणम् ? । “सवत्चगेत्ति” ऋतौ ऋती यथायथं भज्यमानाः सेव्यमानाः, मुखाम्मुखहेतवो ये तैः । किंविशिष्टा त्रिशला ?। “ववगयेति" व्यपगताः रोगाः-ज्वरादयः, शोकः इष्टवियोगादिजनितः, मोहः मूर्छा, भयं भीतिमात्रम्, परित्रासः अकस्माद्भयं, परित्रासस्थाने परिश्रमो वा व्यायामः, ततः कृतद्वन्द्वा यस्याः सा व्यपगतरोगशोकभयमोहपरिश्रमा, एवंविधा सती यत् तस्य गर्भस्य हितं गर्भस्यैव मेधायुरादिवृद्धिकारणं मितं-न अधिकं ऊनं वा, पथ्यं अरोगकारणत्वात् । कोर्थः । गर्भपोषणं देशे-उचितप्रदेशे, तथाकाले तथाविधाऽवसरे आहारं अभ्यवहरन्तीति, विविक्तानि-दोषवियुक्तानि लोकान्तरासंकीर्णानि वा, मृदुकानि च कोमलानि यानि तैः शयनाऽऽसनैः । पुनः विहारभूम्या-चङ्कमणासनादिभूम्या । किंविशिष्टया विहारभूम्या ? । "पइरिक त्ति" प्रतिरिक्तया तथाविधजनापेक्षया विजनया, अत एव सुखया शुभया वा । पुनः किंविशिष्टया विहारभूम्या ? | मनोऽनुकूलया । पुनः किंविशिष्टा त्रिशला ? प्रशस्ता अनिन्द्या दोहदा=मनोरथा यस्याः सा। पुनः किंविशिष्टा त्रिशला ?। संपूर्णदोहदा अभिलाषपूरणात् । पुनः किंविशिष्टा त्रिशला ?। संमानितदोहदा प्राप्ताभिलषितस्य भोगात्। पुनः किं विशिष्टा त्रिशला ? अवमानितदोहदा-नावज्ञातदोहदा, क्षणमपि
१०१॥
For Private and Personal Use Only