________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
XXXXXXXXXXX
सर्वालङ्कारविभूपिता तं गर्भ सुखेन वहति । कैः । एवंविधैः आहारादिभिः। किंविशिष्टैः आहारादिभिः । "नाइसीएहिं" न अतिशीतैः, यतो अतिशीतं मारुतं प्रकोपयति, शीतादिषु हि कानिचित् वातिकानि, कानिचित्| पैत्तिकानि, कानिचित् श्लेष्मकारीणि च स्युः । उक्तं च वाग्भट[कृते अष्टाङ्गहृदय] ग्रन्थे__ "वातलैश्च भवेद्गर्भः, कुजान्धजडवामनः । पित्तलैः खलतिः पिङ्गः, श्वित्री पांडः कफात्मभिः॥१॥” (शारी-15 रस्था. अ.१ श्लो. ४८) । पुनर्नात्युष्णः, यतः-“अत्युष्णं हरति बलम्" पुनर्न अतितिक्तः, नातिकटुकैः, नातिकपायैः, न अति-अम्लैः, न अतिमधुरैः नातिस्निग्धैः नातिरूः नात्याद्वैः नातिशुष्कः, यतः एभिः आहारैः सेव्यमानः गर्भो बन्धनात् मुच्यते । पुनरपि कामसेवा १ यान २ वाहन ३ अध्वगमन ४ प्रस्खलन ५ प्रपतन ६ प्रपीडन ७प्रधावन ८ अभिघातन ९ विषमशयन १० विषमासन ११ उपवास १२ वेग |१३ विघात १४ अतिभोजन १५ अतिराग १६ अतिशोक १७ अतीसार १८ वमन १९ विरेचन २० प्रेढोलन २१ अजीर्णादिभिः गर्भपातो भवेत् । ऋतौ प्रथमदिवसात् प्रभृति ब्रह्मचारिणी दिवा खापांजन-अश्रुपातस्नान-अनुलेपन-अभ्यङ्ग-नखच्छेदन-प्रधावन-हसन-कथन-अतिशब्दश्रवण-अवलेखन-अनिलायासान परिहरेत् । यतः एतत् कारणम्-'दिवाशयनेन शयनशीलः, अञ्जनात् अन्धः, रोदनात् विकृतदृष्टिः, लानानु-। लेपनात् दुःखशीलः, तैलाभ्यङ्गात् कुष्ठी, नखापकर्तनात् कुनखी, प्रधावनात् चंचलः, हसनात् (श्यावदन्तोष्ठ) संदर्शितोष्ठतालुजिह्वः, अतिकथनात् प्रलापी, अतिशब्दश्रवणात् बधिरः, अवलेखनात् खलतिः, व्यञ्जन
Fer Private and Personal Use Only