________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूर्यन्ते प्रमोदेन गात्राणि । राजभवनं च चतुर्भिरपि वर्णैः व्याप्तम्, वर्धापनाय आगताभिः स्वर्णकोटीमिः पूर्णम् । पुनः प्रमोदाकुलचेटीभिः आकीर्णम्, । दिव्यरथैः संनिबद्धपथं, तुरङ्गमैः दुर्गमम् पत्तिनिवेशैः दुष्प्र वैशम्, । मूर्तिमत्प्रमोदमयमिव, संप्राप्तसर्वाभ्युदयमिव, करकलितसकलसिद्धिकमिव, समुद्दीपितचतुर्बुद्धिकमिव, लब्धत्रिभुवनमहाराज्यमिव, सर्वसंप्रातिप्राज्यमिव । पुनरपि विधीयन्ते स्म हहशोभाः । प्रकट्यन्ते सा मञ्चोन्मञ्चेषु नाट्यानि, वाद्यन्ते स्म सूर्यनिर्घोषाः, लोकानां कोलाहलेन कर्णपतितमपि न श्रूयते, पुनरपि प्रयोजिताः श्रीजिनप्रासादेषु पूजा:, बन्दिमोचनानि कृतानि, सर्वत्र नगरमध्ये अमारिपटही घोषितः, सुसाधूनां पर्युपास्तिः विस्तारिता, प्रारब्धानि साधर्मिक वात्सल्यानि, व्यक्तीकृता श्रीसङ्घभक्तियुक्तिः, सत्रागारेषु महादानानि सूत्रितानि याचकानां मनोरथदानानि दत्तानि महादानेन राजपुरुषाः कल्पवृक्षा इव जाताः, । राजा परमैश्वर्येण इन्द्र इव जातः, लोकश्च सर्वोऽपि प्रभूतदिव्याभरणादिविभूत्या सुरलोक इव दृश्यते, गृहे गृहे च | महान् महोत्सवः संपन्नः, सर्वेषां च परमानन्दः प्रकटीबभूव ।
अथ भगवान् गर्भगतः कीदृशं अभिग्रहं गृह्णाति ?, तत्राह -
तणं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिves - नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडे भविता अगाराओ अणगारिअं पवइत्तए ॥ ९४ ॥ व्याख्या- "तए णं समणे" ततश्च श्रमणो भगवान् महावीरः “गब्भत्थे चैव त्ति" पक्षाधिकमासषट्रे व्यति
For Private and Personal Use Only
XOXOXOXxxx