________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
फरपत्र
कल्पलता ज्या०४
॥८६॥
इत्यर्थः, गृहेभ्यो निर्गच्छन्ति, निर्गत्य च क्षत्रियकुण्डग्राममध्ये भूत्वा यत्रैव सिद्धार्थस्य राज्ञः "भवण" सिद्धार्थस्य भवनचरेषु-हर्येषु अवतंसक इव-शेखर इव भवनवरावतंसकः तस्य प्रतिद्वारे मूलद्वारसमीपद्वारे आगच्छन्ति, मखमलक्षणआगत्य च एकत्र मिलन्ति, मिलित्वा च यत्रैव बाह्या आस्थानशाला यत्रैव सिद्धार्थों राजा तत्रैव आग- पाठकैः च्छन्ति, आगत्य च अञ्जलिं मस्तके कृत्वा, सिद्धार्थ क्षत्रियं जयेन विजयेन च वर्षापयन्ति, "त्वं वर्धख" वर्धापनम् इति आचक्षते इत्यर्थः। तौ च प्राग्व्याख्यातौ । पुनस्ते प्रोचुः
"दीर्घायुभव वृत्तिमान् भव सदा, श्रीमान यशस्वी भव!। प्रज्ञावान् भव भूरिसत्त्वकरुणा-दानैकशौण्डो |भव !। भोगाढ्यो भव भाग्यवान् भव ! महा-सौभाग्यशाली भव!। प्रौढश्रीव कीर्तिमान् भव ! सदा विश्वोपजीवी भव! ॥१॥ | व्याख्या-हे राजन् ! त्वं दीर्घायुः भव, श्रीमान् भव, यशखी भव, प्रज्ञावान् भव, भोगवान् भव, दानवान् भव, भाग्यवान् भव, सौभाग्यवान् भव, कीर्तिमान् भव, कोटिंभरो भव !।' पुनः प्रवदन्ति स्म| "दशावतारो वः पायात्, कमनीयाचनद्युतिः। किं प्रदीपः, न हि, श्रीपः, किंतु वामांगजो जिनः ॥१॥ अस्यापि बालावबोधार्थ अर्थो यथा-'हे राजन् ! दशावतारो वो युष्मान् पायात्-रक्षां करोतु । किंविशिष्टः दशावतारः ?। कमनीयं अञ्जनं कज्जलं, तस्मात् तद्वत् वा द्युतिः यस्य सः। ईदृशः तर्हि किं दीपः
भव, प्रज्ञावान मधुनः प्रवदन्ति
।
सोनागा ॥८६॥
For Private and Personal Use Only