________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
णसाला जेणेव सिद्धत्ये खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहिरं जाव कह सिद्धत्थं खत्तिअंजएणं विजएणं वद्धाविति ॥ ६७ ॥ व्याख्या-'तए णं' ततश्च ते स्वमलक्षणपाठकाः सिद्धार्थस्य क्षत्रियस्य कौटुम्यिकपुरुषैः आहूताः सन्तः हृष्टतुष्टाः सन्तः स्लाताः कृतलानाः । पुनः स्नानानन्तरं कृतं बलिकर्म खदेवतानां यैः ते । पुनः किंविशिष्टाः खनलक्षणपाठकाः । कृतानि कौतुकमङ्गल्यान्येव प्रायश्चित्तानि दुःस्वमादिविघातार्थ अवश्यकरणीयत्वात् यैः ते तथा। तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि च सिद्धार्थकदध्यक्षतदूर्वाङ्गुरादीनि। अन्ये त्वाहु:-"पायच्छुत्ता” इति, पादेन पादे वा छुप्ताः चक्षुर्दोषपरिहारार्थ पादछुप्ताः, कृताः कौतुकमङ्गलाश्च ते पादछुप्ताचेति समासः । पुनः किंविशिष्टाः खमलक्षणपाठकाः?। शुद्धात्मानः लानेन शुचीकृतदेहाः । पुनःर्किविशिष्टाः खपलक्षणपाठकाः । वस्त्राणि परिहिताः। किविशिष्टानि वस्त्राणि?। “वेसाइ" वेषे साधूनि वेष्याणि, अथवा शुद्धानि च तानि प्रवेश्यानि च राजसभाप्रवेशोचितानि चेति पदद्वयेनापि वस्त्रविशेषणं कार्यम् । पुनः किंविशिष्टानि वस्त्राणि? । मङ्गलकरणे साधूनि । पुनः किंविशिष्टानि वस्त्राणि? । प्रवराणिप्रधानानि । पुनः किंविशिष्टाःम्बमलक्षणपाठका:?| "अप्पेत्ति" अल्पानि महा_णि बहुमूल्यानि यानि आभरणानि तैः अलङ्कतं शरीरं येषां ते। पुनः किंविशिष्टाः स्वपलक्षणपाठकाः? । “सिद्धत्थेत्ति” सिद्धार्थकाश्च सर्षपाः हरितालिका दूर्वाश्च कृता मङ्गलानिमित्तं मूर्धनि-शिरसि यैस्ते, एवंविधाः सन्तः स्वमलक्षणपाठकाः खकेभ्यः स्वकेभ्यः आत्मीयेभ्यः आत्मीयेभ्यः
XXXXXXXXX
For Private and Personal Use Only