SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir प्रदीपः । नहि कथं ? । तस्यापि दशातो वर्तितोऽवतारो भवति । कमनीयाऽञ्जनयुतिः भवति । तर्हि किं श्रीपः श्रीकृष्णः । नहि; कथं ?। तस्य दश अवतारा मत्स्यकूर्मादयो वर्तन्ते ? अथ च कमनीयाञ्जनातिरपि कृष्णवर्णत्वात्, किंतु को देवः ? इत्याह-वामाङ्गजः वामाया अङ्गजो वामाङ्गजः श्रीपार्श्वनाथो यतः सः दशावतारो दश अवताराः भवा यस्य स दशावतारः । पुनः कमनीयाजनयुतिः श्यामवर्णत्वात् , अयं आशीर्वादो युक्तः । सिद्धार्थस्य श्रीपार्श्वनाथश्रावकत्वेन श्रीआचाराङ्गसूत्रे प्रोक्तत्वात् । ततः ते खमलक्षणपाठकाः कीदृशाः सन्तः किं कुर्वन्ति म?, तत्राहतए णं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा वंदियपूइअसक्कारिअसम्माणिआ समाणा पत्तेअं २ पुत्वन्नत्थेसु भद्दासणेसु निसीयंति ॥ ६८ ।। व्याख्या-"तए णं ते ति” ततश्च ते स्वप्नलक्षणपाठकाः सिद्धार्थेन राज्ञा वन्दिताः सद्गुणोत्कीर्तनेन, पूजिताः पुष्पैः, सत्कारिताः फलवस्त्रादिदानेन, सन्मानिताः अभ्युत्थानादिप्रतिपत्त्या। अन्ये त्याहुः-पूजिता वस्त्राभरणादिभिः, सत्कारिता अभ्युत्थानादिना, सन्मानिता आसनदानादिना। कचित् "अविअवंदिअमाणिअपूइअत्ति” पाठः, तत्र अर्चिताः चन्दनचर्चादिना, मानिता दृष्टिप्रणामतः, पूजिताः पुष्पैः, “समाणत्ति" सन्तः प्रत्येकं प्रत्येक पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति । ततो राजा किं करोति ?, तत्राह For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy