________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्छति, आगत्य च सिंहासने पूर्वाभिमुखो निषीदति, निषिद्य च आत्मन ईशान कोणे, अष्टौ भद्रासनानि रचयति, रचयित्वा । किंविशिष्टानि भद्रासनानि ? | श्वेतवस्त्रेण= धवलवाससा प्रत्यवसृतानि आच्छादितानि । पुनः किंविशिष्टानि भद्रासनानि ? । कृतः सिद्धार्थकप्रधानो मङ्गलाय उपचारः = पूजा येषु तानि प्राकृतत्वात् कृतशब्दस्य पूर्वनिपातः । ततः आत्मनः सामंतं समीपं उभयोः अभावेन अतिदूरे-नातिसमीपे इत्यर्थः । एवंविधां यवनिकां अंछयतीति= आकर्षयतीति संबंधः । किंविशिष्टां यवनिकाम् ? | नानामणिरत्नैः मण्डिताम् । पुनः किंविशिष्टां यवनिकाम् ? । अधिकं प्रेक्षणीयां - अवलोकनीयाम् । कापि " अहिअपिच्छणिजरूवं" इति पाठः, ( स च ) सुबोधः । पुनः किंविशिष्टां यवनिकाम् ? । महार्घा वासौ वरपत्तने स्त्रोत्पत्तिस्थाने उद्गतां च व्यूता वरपट्टनात् वा, प्रधानवेष्टनकादुद्वतां निर्गतां । पुनः किंविशिष्टां यवनिकाम् ? | सूक्ष्मपट्टसूत्रमयो भक्तिशतचित्रस्तानः स्तानको यस्यां सा ताम् । क्वचित् “भत्तिसयस मुवचिअमाणं" इति पाठः, तत्र भक्तिशतैः समुपचितैः स्फीतो मानो = बहुमानो यस्याः सा ताम् । कचित्र " सहबहुभत्तिसयचित्तताणं सययसमुचिअं” इति पाठः, तत्र लक्ष्णानि बहुभक्तिशतानि यानि चित्राणि तेषां स्थानं, तत एव सततसमुचितां सर्वकालयोग्याम् । पुनः किंविशिष्टां यवनिकाम् ? । ईहामृगाः = वृका = ऋषभतुरगनरमकर विहगाः प्रतीताः, व्याला: श्वापदा भुजङ्गा वा, किन्नराः = व्यन्तरविशेषाः, रुरवो मृगभेदाः, शरभाः =अष्टापदाः, महाकायाः = आटव्यपशवः, चमरा:=आदव्यगावः, कुञ्जराः =हस्तिनः, वनलतापझलताः = लता भेदाः, ततः सर्वेषां पदानां द्वन्द्वः
For Private and Personal Use Only
XXXXXCX*** XXCX