________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| श्रेष्ठिनः=श्रीदेवताध्यासितसौवर्णपट भूषितोत्तमाङ्गाः १७, सेनापतयो = नृपतिनिरूपिताः चतुरङ्गसेनानायकाः १८, सार्थवाहाः = सार्थ नायकाः १९, दूताः = अन्येषां गत्वा राजाप्तदेशनिवेदकाः २०, सन्धिपालाः = राज्यसन्धिरक्षकाः २१, एषां द्वन्द्वसमासः, ततः तैः । इह तृतीयाबहुवचनलोपो द्रष्टव्यः । सार्धं न केवलं तत्सहितोऽपि तु तैः समन्तात् परिवृतो नरपतिः तस्मात् मज्जनगृहात् निष्क्रामति । पुनः वार्तिकमपि अत्रार्थे- अनेकगणनायकदण्डनायक - श्रीगरणा-चयगरणा - देवगरणा-जमगरणा - सामंत महासामंत-मंडलीक - महामंडलीक - चउरा - सिया-मुकुदयद्ध- संधिपाल - दूतपाल - संधिविग्रही - पारविग्रही - अमात्य - महाअमात्य - श्रेष्ठि- सार्थवाह-व्यवहारी- अंगरक्षक-पुरोहित - गणनायक-वृत्तिनायक - बही वाहक - थईयायत पडुपडीयायत - कपदायत टाकटमाली - इंद्रजाली -धर्मवादी - धातुर्बादी मंत्रवादी - तंत्रवादी यंत्रवादी - ज्योतिर्वादी- तर्कवादी - धनुर्धर - दण्डधरखड्गधर - वाणहीधर - छत्रधर-चामरघर - पताकाधर- देवीधर - प्रतीहार - बालहार - सेजपाल - तंत्रपाल - अंगमर्दकआरक्षक-मीठा बोला- साचाबोला - मुहबोला- साहबोला- कथाबोला-गुणबोला- समस्या बोला - साहित्यबंधकलक्षणबंधक - छंदबंधक- अलंकारबंधक-नाट्यबंधक-गीतबंधक, इत्यादीनां परिवारेण परिवृतः । पुनः किंविशिष्टः नरपति: ? । धवलमहामेघनिर्गत इव शशी । 'ससित्ति' ततोऽन्यत्र सम्बन्धः, ततो ग्रहगणदीप्यमानकक्षतारकगणानां मध्ये इव वर्तमानः । पुनः किंविशिष्टः । प्रियदर्शन: नराणां पतिः = रक्षिता । पुनः किंविशिष्टः नरपतिः । नरेन्द्रः, नरेषु ऐश्वर्यानुभवनात् । पुनः किंविशिष्टः नरपति: ? । नरवृषभः,
For Private and Personal Use Only
*•*•*•*•*•*•*•*•*•*•*