________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
कल्पसूत्रं कल्पलता व्या०४
॥७९॥
रुधिरादिधातुसमताकारिभिः, । पुनः किंविशिष्टैः अभ्यङ्गः । दीपनीयः दीप्तिजनकैः अग्निजननैः । पुनः व्यायामा किंविशिष्टैः अभ्यङ्गैः । मदनीयै। कामवर्धनैः । पुनः किंविशिष्टः अभ्यङ्गैः । बृहणीयैः मांसोपचयकारिभिः। कम्पङ्गादि पुनः किं विशिष्टैः अभ्यङ्गः ? । दर्पणीयैः बलकरैः। पुनः किंविशिष्टः अभ्यङ्गैः ? । सर्वेन्द्रियाणि सर्वगात्राणि च महादयंतीति कर्तरि अनीयप्रत्ययः, तैः अभ्यस्लेहै: अभ्यङ्गः क्रियते स्म यस्य सः, अभ्यङ्गितः सन् , ततः तैलचर्मणि तैलाभ्यक्तस्य संवाघनाकरणाय यत् चर्मतुलिकोपरि कडनं (तैलचर्म) तत्र एवंविधैः पुरुषैः “संबाहिर समाणे ति" योगः। किंविशिष्टैः पुरुषैः । “पडिपुण्णेत्ति" प्रतिपूर्णानां पाणिशदानां सुकुमालकोमलानि अतिकोमलानि तलानि अघोभागापेक्षया येषां ते तैः। पुनः किंविशिष्टैः पुरुषैः । “अन्भंगणे ति' अभ्यङ्गपरिमर्दनोद्वलनानां प्रतीतार्थानां करणे ये गुणविशेषाः तेषु निर्मातारः सदभ्यस्ताः ये ते तः। पुनः किं विशिष्टैः पुरुषैः । छेकै अवसरः, द्विससतिकलापण्डितः इति वृद्धाः । पुनः किंविशिष्टैः पुरुषैः । वक्षः कार्याणां अविलम्बितकारिभिः। पुनः किंविशिष्टैः पुरुषैः । प्रष्ठैः, वाग्मिभिरिति वृद्धाः । अथवा प्रष्टैः अग्रगामिभिः । पुनः किंविशिष्टैः पुरुषैः? । कुशलैः साधुभिः संबाधाकर्मणि । पुनः किंविशिष्टैः पुरुषैः ? । मेधादिभिः अपूर्वविज्ञानग्रहणशक्तिनिष्टैः । “निउणेहिं निपुणसिप्पोवगएहिं त्ति" कचित् पाठः ॥ ७९ ॥ तत्र निपुणैः उपायकुशलैः, निपुणानि सूक्ष्माणि यानि शिल्पानि अङ्गमर्दनादीनि तानि उपगतानि अधिगतानि यः ते नैः । पुनः किंविशिष्टैः पुरुषैः । जितपरिश्रमैः । व्याख्यान्तरे-छेकैः अयोजन ः, दक्ष
For Private and Personal Use Only