________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०४
नयणापरहविशेषः, पारकोपावित
सिद्धार्थस्य व्यायामशालाप्रवेश
।। ७८॥
च ४, गुञ्जाया अर्धश्चेति ५ द्वन्द्वः, तेषां यो रागः तेन सहशे। कचित्तु "गुंजद्धरागबंधुजीवगपारावयचलणनयणपरहुअसुरत्तलोअणजामुअणकुसुमरासिहिंगलुयनियराइरेयसोहंतसरिसे' इति पाठः। तत्र च बन्धुजीवकं-पुष्पविशेषः, पारापतस्य चलनी नयने च, परभृतस्य कोकिलस्य सुरक्तस्य जात्यत्वात् लोचने परभृतस्य वा सुरक्ते, सुशब्देन कोपाविष्टत्वलक्षणात् कोपारक्त लोचने "जासुअणकुसुमरासित्ति" जपापुष्पप्रकरः हिङ्गुलकनिकरः, सुवर्तितकुरुविन्दगुलिका एतेभ्यः अतिरेकेण आधिक्येन शोभमान: राजमानः सन् सदृशः, तस्मिन् , अरुणत्वमात्रेण सदृशे, विशिष्टदीश्या तु अतिरिक्त इति भावः । पुनः किंविशिष्ट सूर्य ? | कमलाकराः पद्मोत्पत्तिस्थानभूता हृदादयः तेषु यानि खण्डानिम्नलिनवनानि तेषां योधके-विकासके। पुनः किंविशिष्ट सूर्ये? । उद्गते । पुनः किंविशिष्ट सूर्ये ? । सहस्रं रश्मयो यस्य स तस्मिन् । पुनः किंविशिष्टे सूर्ये ?। दिनकरेदिनकरणशीले। पुनः किंविशिष्ट सूर्य? । तेजसा ज्वलति सति । पुनः क सति? । तस्य च करा-किरणाः तेषां | सेः या प्रहारः अभिघाता, तेन अपराद्धेविनाशिते अन्धकारे सति । “पहरत्ति” प्राकृतलक्षणेन हखः ।। पुनः क सति । जीवलोके-मध्यजगति, बालातपः कुंकुममिव तेन खचिते इव-पिञ्जरिते इच, एवंविधे प्रभाते जाते सति सिद्वार्थो राजा शयनीयात् अभ्युत्तिष्ठति, अभ्युत्थाय च पादपीठात् उत्तरति, उत्तीर्य च अनशालांव्यायामशालां अनुप्रविशति, अनुप्रविश्य च किं कृतवान् ? तबाह
अणेगवायामजोगवग्गणवामद्दणमल्लजुद्धकरणेहिं संते परिसंते सयपागसहस्सपागेहिं सुगं
For Private and Personal Use Only