________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रन्थोक्तसुरभिकरणोपायभूततत्तद्व्याणि तेषां उत्तमेन मघमघायमानेन गन्धेन उद्धतेन इतस्ततो विप्रसृतेन अभिरामं यत् तत् तथा । कचित् "डझंतधूवसारसंग” इति पाठः, तत्र दह्यमानो यो धूपसार:-उत्कृष्टधूपः तस्य सङ्गः तेन-हृदयङ्गमेन उत्तमेनेति व्याख्येयम् । पुनः किंविशिष्टं विमानम् । नित्यालोकं नित्यमुक्ष्योतयुक्तं, श्वेतं श्वेतप्रभम् । पुनः किंविशिष्टं विमानम् ? | "सुरवरेत्ति" सुरवरान् अभिरमयति इति । अथवा सुराणां वरा अभिन्समन्तात् रामा स्त्रियो यस्मिन् तत् । पुनः किंविशिष्टं विमानम् ? । सातस्य-सातवेदनीयस्य कर्मणः उपभोगो यत्र तत्, पञ्चधाविषयसुखसम्पत्तेस्तत्र सट्टावात् । देवविमानदर्शनात् देवदेवीसेन्यो भगवान् भावी ।। इति द्वादशस्त्रप्रदेवविमानविचारः ॥ १२॥ पुनः देवविमानदर्शनानन्तरं सा त्रिशला त्रयोदशवमे रत्नराशिं पश्यति । परं स कीदृशः? तत्राहतओ पुणो पुलगवेरिंदनीलसासगककेयणलोहियक्खमरगयमसारगल्लपवालफलिहसोगंधियहंसगब्भअंजणचंदप्पहवररयणेहि महियलपइदिअं, गगणमंडलंतं पभासयंतं तुंगं मेरुगिरिसंनिकासं पिच्छइ सा रयणनिकररासिं १३ ॥ ४५॥ व्याख्या-"तओ पुणो” ततः पुनरपि सा त्रिशला क्षत्रियाणी त्रयोदशे स्वमे रत्नानां निकरः-समूहो रत्ननि-| करः, तस्य राशि:=पुनः, तं पश्यति. किंविशिष्टं रत्नराशिम् ? । “पुलगेत्ति” पुलकरत्नम् १, वज्ररत्नम् २, नीलरत्नम्
For Private and Personal Use Only