________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं स्वर्णपत्रकेषु लम्बमानाभिः मुक्ताभिः समुज्वलं कनकप्र(क)तः लम्बमानमुक्ताभिश्च समुज्वलमित्येकं पदम् । विमानखमकरपलता इदं पदं अधिकमिव (भाति)कापि अव्याख्यानात् । पुनः किंविशिष्टं विमानम् । “ईहामिगेत्ति" ईहामृगासवर्णनम्१२ व्या०३ वृकाः 'नाहर' इति प्रसिद्धाः १, “उसभेत्ति" वृषभाः २, "तुरगत्ति" अश्वाः ३, "मगरत्ति" मकरमत्स्याः ४,
विहगा पक्षिणः ५, “वालगत्ति" व्यालाः सर्पाः ६, किंनराः देवविशेषाः ७, करवो-मृगभेदाः ८, शरभाअष्टापवजीचाः ९, चमरा चमरीगावः १०, संसत्तिः श्वापदविशेषाः ११, कुखरा हस्तिनः १२, वनलता अशोकलताथाः १३, पमलता पद्मिन्यः १४, एतेषां भक्तिभिः विच्छित्तिभिः चित्रं नाना रूपम् । एतावता यस्मिन् विमाने एतानि ईहामृगादीनां रूपाणि सन्ति (भवन्ति)। पुनः किंविशिष्टं विमानम् । “गन्धवोत्ति" गन्धर्वस्य गीतस्य उपवाद्यमानस्य वादिनस्य च संपूर्णो घोषो यन्त्र । "उन्होपेति" सूत्रेण "उवजमाण" इति रूपं, कचित् “गंधवोपबज्झमाण” इति पाठः, तत्र गन्धर्वाणां-देवगायनानां उपबध्यमानः परस्परं सम्बन्धी
भवन , अत एव संपूर्णो घोषो यत्रेति योज्यम् । पुनः किंविशिष्टं विमानम् ! | नित्यं शाश्वतम् । पुनः किं कुर्क*णम् ? "सजलत्ति" सजलो घना अविरलः विपुल-पृथुः जलधरः मेघस्तस्य गर्जितशब्दः, तदनुनादिना-प्रति
रवयुक्तेन देवदुन्दुभिमहारवेण सकलं समस्तमपि जीवलोकं पूरयन्तं आप्याययंतं चतुर्दशरज्वात्मकं वा लोकं ॥ ९॥ व्यामुवन्तम् । पुनः किंविशिष्टं विमानम् ? | "कालागुरुत्ति" कृष्णागुरु च १, प्रवरकुंदुरुष्कः चीडाभिधानः सुगन्धिद्रव्यविशेषः२, तुरुष्कश्च सेल्लारसः३, ते च पुनः दह्यमानो धूपश्च दशाङ्गादिः वासाकानि च गन्धमालिनी
For Private and Personal Use Only