________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पमत्रं कल्पलता च्या०३
खम
पवित्रपानीयेन प्रतिपूर्ण भृतम् । पुनः किंविशिष्टं पूर्णकलशम् ? । उत्तम प्रधानम् । पुनः किंविशिष्टं पूर्णकल- | पूर्णकलशशम् । दीप्यमानशोभं ज्ञानं दीप्यमाना शोभा यस्य स तम् । पुनः किंविशिष्टं पूर्णकलशम् ? । कमलकलापेन कमलसमूहेन परि-समन्तात् राजमानम् (शोभायमानं)। कचिच “कालमऊरकलावपरिरायमाणं" पाठः, सतु वर्णनम् ९ स्पष्टार्थ एव । पुनः किंविशिष्टं पूर्णकलशम् १ प्रतिपूर्णकानां सर्वमङ्गलभेदानां समागमो मेलापकस्थानं, कधिच "पडिबुझतसवमंगलालयसमागमं” इति पाठः, तत्र प्रतिबुद्ध्यमानानि-जागरूकानि यानि सर्वमङ्गलानि * तेषां आलयो निवासभूतः समागमा संमुखागमनं यस्य स तम् । पुनः किंविशिष्टं पूर्णकलशम् ? । “पवरेत्ति" प्रवररत्नैः प्रकर्षेण राजति कमले स्थितम् , यद्वा प्रवरा रचना यस्य तथा परागः पुष्परजः अन्तर्ग, यस्य तादृशे कमले स्थितम् । कचिच "पवररयणपसरतकमलट्ठिअंति" पाठः, तत्र प्रवराणि रत्नानि यत्र तब तत्पसरद विकसत्कमलं च तन्त्र स्थितम् । पुनः किंबिशिष्टं पूर्णकलशम् ? । “नयणे ति" नयनानां आनन्दकरत्वात् भूषणकरम् । पुनः किंविशिष्टं पूर्णकलशम् । प्रभासमानं स्वयं रचयंतं प्रभया वा असमानं अत एव सर्वा दिशो दीपयन्तम् । पुनः किंविशिष्टं पूर्णकलशम् ? । “सोमेति' सौम्यलक्ष्म्याः प्रशस्तसंपदो निहेलणंति देश्यत्वात् गृहम् । पुन: किंविशिष्टं पूर्णकलशम् ? । सर्वैः पापैः अशिवैः परिवर्जितम् , । अत एव शुभम् । पुनः भासुरं=X॥६५॥ दीप्तम् । पुनः किंविशिष्टं पूर्णकलशम् । श्रिया-त्रिवर्गसंपत्या वरं श्रेष्ठं, तदागमसूचकत्वात् । पुनः किंविशिष्टं पूर्णकलशम् ? । “सबोउअति सर्वेभ्यः ऋतुभ्यः समुत्पन्नानां सुरभिकुसुमानां आसक्तं कण्ठस्थं माल्यदाम
For Private and Personal Use Only