________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेन कृतोद्यमेन इव, अत्युच्चैस्तात् इति उत्प्रेक्षा । पुनरपि किंविशिष्टं ध्वजम् ? । शिवः (निरुपद्रवः) सौम्यः मृदु अखण्डः यो मारुतो वायुः तस्य लया श्लेषः तेन आहतं आंदोलितं अत एव प्रकंपमानं इतस्ततो नृत्यन्तम् । अथवा शिवं मृदुकः मारुताहतलतावत् प्रकम्पमानं इति व्याख्येयम् । "लयायत्ति" आर्षत्वात् आहतस्य परनिपातः। पुनः किंविशिष्टं ध्वजम् ? । अतिप्रमाणं महाप्रमाणम् । पुनः किंविशिष्टं ध्वजम् । जनप्रेक्षणीयरूपं । ध्वजदर्शनात् भगवतो मस्तके छत्रत्रयसहिता ध्वजा देवैः धरिष्यते ॥ पुनः वंशे ध्वजाप्रायो भविष्यति धर्मध्वजश्रिया भूषितो भविष्यति ॥ इति अष्टमध्वजखमविचारः॥८॥ पुनः सा त्रिशला क्षत्रियाणी नवमे स्वप्ने पूर्णकलशं पश्यति, परं स कलशः कीदृशः? तत्राहतओ पुणो जञ्चकंचणुजलंतरूवं निम्मलजलपुण्णमुत्तमं दिप्पमाणसोहं कमलकलावपरिरायमाणं पडिपुण्णसवमंगलभेयसमागमं पवररयणपरायंतकमलट्ठियं नयणभूसणकरं पभासमाणं सवओ चेव दीवयंतं सोमलच्छीनिभेलणं सवपावपरिवजिअं सुभं भासुरं सिरिवरं सहोउयसुरभिकुसुमआसत्तमल्लकुसुमदामं पिच्छइ सा रययपुण्णकलसं ९॥४१॥ व्याख्या-"तओ"सा त्रिशला क्षत्रियाणी नवमे खमे पूर्णकलशं पश्यति। किंविशिष्टं पूर्णकलशम् ? । जात्यकाश्चनेन उत्प्राबल्येन ज्वलत् रूपं यस्य स तम् । पुनः किंविशिष्टं पूर्णकलशम् ? । “निम्मलेत्ति" निर्मलजलेन=|
For Private and Personal Use Only