________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-माला यस्मिन् स तम् । अत्र 'दाम'शब्दः प्रशंसायाम् । यथा “वनान्तकपोलपाली" इत्यादौ अन्त १ पाली २ शब्दौ । पुनः किंविशिष्टं पूर्णकलशम् ? । "रजते ति" रजतशब्दस्य रूप्यवाचकत्वेऽपि अन कनकवाचित्वं ज्ञेयम् । पूर्णकुम्भदर्शनात् भगवतो मङ्गलश्रेणिः भविष्यति ॥ इति नवमखमपूर्णकुम्भविचारः॥९॥
अथ दशमे स्वप्ने त्रिशला क्षत्रियाणी पद्मसरः पश्यति, परं तत् सरः कीदृशम् ? तत्राहतओ पुणो पुणरवि रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं जलचरपहकरपरिहत्थगमच्छपरिभुज्जमाणजलसंचयं महंतं जलंतमिव कमलकुवलयउप्पलतामरसपुंडरीयउरुसप्पमाणसिरिसमुदएणं रमणिज्जरूवसोहं पमुइयंतभमरगणमत्तमहुयरिंगणुकरोलि(ल्लि)जमाणकमलं कायंबगवलाहयचककलहंससारसगविअसउणगणमिहुणसेविजमाणसलिलं पउमिणिपत्तोवलग्गजलविंदुनिचयचित्तं पिच्छइ सा हिययनयणकंतं पउमसरं नाम सरं सररुहाभिरामं १० ॥ ४२ ॥ व्याख्या-"तओ पुणो पुणरवि किरण" ततःसा त्रिशला क्षत्रियाणी शरत्कालीनरजनीकरवत् सौम्यं वदनं - यस्याः सा चन्द्रवदनेत्यर्थः। पुनरपि एवंविधं पद्मसर-पद्मसरोवरं पश्यति । परं किंविशिष्टं पद्मसरः ।
For Private and Personal Use Only