________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
कल्पमत्रं कल्पलता व्या०३
॥६३॥
ज्ञापकम् । पुनः किंविशिष्टं सुरम्।अम्बरतले आकाशतले प्रदीप इव प्रदीपः तम्, आकाशस्य दीपकमिवेत्यर्थः ज्येखापुनः किंविशिष्टं सूरम् ? । “हिमपडलेत्ति" हिमपटलं गले गृहातीति हिमपटलगलग्रहः।[अवश्यायःराशेः] अमा- वर्णनम् ७ वस्थायाः रात्री गलहस्तयिता तम् । पुनः र्किविशिष्टं सूरम् ?। “गहगणोरुत्ति" ग्रहगणस्य उरु-महान् नायकः तम् । पुनः किंविशिष्टं सूरम् । रात्रिविनाशं इति स्पष्टम् । कचित् 'रतिविनासं' इति पाठः, तत्र रात्रिव्यपनाशं । इति व्याख्येयम् । पुनः किंविशिष्टं सूरम् ? । "उदयत्येत्ति" उदये अस्तमने च मुहूर्त यावत् सुखदर्शनम् । अन्यथा दुर्निरीक्ष्यरूपं इति व्यक्तम् । पुनः किंविशिष्टं सूरम् ? | "रत्तिसुद्धतेति रात्री मकारस्य अलाक्षणिकत्वात् । उद्धावतः उच्चकुलान् दुःप्रचारान दुष्टप्रचारान् चौरपारदारिकान् प्रमर्दयति यः स तम् । “रत्तिसुद्धत"पाटे तु रात्रिरेव शुद्धान्तः अन्तःपुरम् , तत्र दुःखेन योऽसौ प्रचारः तत्पमर्दनम् । यथा हि राज्ञां अन्त:पुरे प्रचारो दुष्करःतथा रात्रौ अपि तमोबिलुमचक्षुषां पथिकानां, सूर्योदये तु सुकरः प्रचारः पथिषु इति ।। पुनः किंविशिष्टं सूरम् ? । शीतवेगमधनं जाज्यातिशयविध्वंसकम् । पुनः किंविशिष्टं सूरम् ?। "मेरुगिरित्ति" मेरुगिरि-मेरुपर्वतम् , सततं निरन्तरम्, परिवर्तयति प्रदक्षिणयति इति मेरुगिरिसततपरिवर्तकः तम् । पुनः विशालं-विपुलम् । पुनः किंविशिष्टं सूरम् । “रस्सीसहस्सेत्ति" रश्मिसहस्रेण हेतुना प्रगलिता प्रदलिता वा दीप्तानामपि चन्द्रादीनां शोभा यस्मात् येन वा स तथा तम् । “पयडिअत्ति" पाठे तु रश्मिसहस्रेण प्रकटिता दीप्ता शोभा यस्येति ज्ञेयम् । अत्र रश्मिसहस्राभिधानं रूख्या, अन्यथा आधिक्यमपि रवि-रश्मीनां लोकशा
For Private and Personal Use Only