________________
Shri Mahavir Jain Aradhana Kendra
@xox axaxa
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सरिसं कमलवणालंकरणं अंकणं जोइसस्स अंबरतलपईवं हिमपडलगलग्गहं गहगणोरुनायगं रत्तिविणासं उदयत्थमणे मुहुत्त सुहदंसणं दुन्निरिक्खरूवं रत्तिसुद्धंतदुप्पयारपमद्दणं सीअवेमहणं पिच्छs मेरुगिरि सयय परियहयं विसालं सूरं रस्सीसहस्सपयलियदित्तसोहं ७ ॥ ३९ ॥ व्याख्या- "तओ पुणो” ततः सा त्रिशला क्षत्रियाणी सप्तमे स्वमे एवंविधं 'सुरं = सूर्य पश्यति । परं किंविशिष्टं सुरम् ? । "तमपडलपरिप्फुडं” तमःपटलस्य अभावः अतमःपटलम् तेन परिस्फुटम् । अथवा तमःपटलं परिस्फोटयतीति तमः पटलपरिस्फुटः । “खराणां खरा" इति ओत उत् ५। पुनः किंविशिष्टं सूरम् ? । | चेवशब्दस्य अवधारणार्थस्य व्यवहितसंबंधात् तेजसैव प्रज्वलद्रूपं । प्रकृत्या हि सूर्यमण्डलवर्तित्वाद् बादर| पृथिवीकायिकाः शीतला एव । अथवा “चेवत्ति" समुच्चयार्थः । पुनः किंविशिष्टं सूरम् ? । “रत्तासोगत्ति" रक्ताशोकश्च १, प्रकाशकिंशुकश्च पुष्पितपलाशः २, शुकमुखे च ३, गुञ्जार्धश्च ४, इत्येतेषां रागेण सदृशः तम्, आरक्तत्वात् । एतावता रक्तोऽशोकवृक्षः १ पुष्पितकिंशुकवृक्षः २ शुकस्य मुखं च ३ गुञ्जाया अर्धभागो मुखं विना ४ एतानि चत्वारि यथा रक्तानि भवन्ति तद्वत्, सूर्योऽपि रक्तो वर्तते । पुनः किंविशिष्टं सुरम् ? "कमलेत्ति" कमलवनानि अलङ्करोति विकाशश्रिया विभूषयति इति कमलवनालङ्करणः तम् । पुनः किंविशिष्टं सूरम् 2 | ज्योतिषस्य ज्योतिषां समूहो ज्यौतिषम् ज्योतिश्चक्रम् तस्य अङ्कनं= मेषादिराशिसङ्क्रमणादिना लक्षणं = |
For Private and Personal Use Only