________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूर्यस्खम
कल्पसूत्र कल्पलता
व्या०३
॥६२॥
मेव । पुनः किंविशिष्टं जनम् ? । दुर्मनस्कं-दुःखिनम् । कुतः?। यतो दयितवर्जितम् भर्तृवर्जितम् । पुनः किवि- शिष्टं शशिनम् । सौम्यचारुरूपम् । पुनः किंविशिष्टं शशिनम् ? | "गगनेत्ति" गगनमण्डलस्य-आकाशमण्डलस्य विशालस्य सौम्यं चङ्कम्यमाणं जगमं तिलकमिव, विभूषाहेतुत्वात् । “गगणगमणित्ति" पाठे तु-गम्यते अनेन अस्मिन् वा गमनम् मार्गः। पुनः किंविशिष्टं शशिनम् । “रोहिणित्ति" रोहिण्याः मनः चित्तं तस्य हितदा=अनुकूलदापी वल्लभः प्रियः तम् । एकपाक्षिकमेमनिरासार्थ हितद इत्युक्तम् । सर्वनक्षत्राधिपत्वेऽपि यत् अन्न रोहिणीवल्लभः इति विशेषणं तत् लोकरूठ्या । पुनः किंविशिष्टं शशिनम् ?। पूर्णो अविकल: चन्द्रा आह्लादो यस्मात् । अथवा पूर्णः चन्द्रो-दीप्तिः यस्य, मेघाधनावरणात् । अत एव समुल्लसन्तं प्रतिक्षणं दीप्यमानम् । पुनः यस्य चन्द्रस्य सैन्यं एतावत् वर्तते-अष्टाशीतिमङ्गलादयो ग्रहाः, अष्टाविंशतिः नक्षत्राणिअश्विन्यादीनि । पुनः ताराणां षट्षष्टिसहस्रकोटिकोट्यश्च नवशतकोटिकोव्यः पंचसप्ततिकोटिकोव्यश्च एते x सर्वेऽपि चन्द्रस्य सेवां कुर्वन्ति । चन्द्रवप्रदर्शनात् भगवान् चन्द्रसहशवदनो भवतापसन्तापहारी लोकानां हृदयनयनानां आह्लादकारी च भविष्यति ॥ इति षष्ठचन्द्रखमविचारः ॥ ६॥
अथ ससमखमे त्रिशला क्षत्रियाणी सूर्य पश्यति, परं स कीदृशः ? तत्राहतओ पुणो तमपडलपरिप्फुडं चेव तेअसा पजलंतरूवं, रत्तासोगपगासकिंसुअसुअमुहगुंजद्धराग
॥६२॥
For Private and Personal Use Only