________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किंविशिष्टं शशिनम् । “तिमिरेत्ति" तिमिरनिकरण घनगम्भीरं यस्य बननिकुनादेः वितिमिरकरम् , तिमिराणां अभावो वितिमिरं, तत्करणशीलम् । पुनः किविशिष्टं शशिनम् ? | "पमाणपक्खत्ति" प्रमाणपक्षयोः वर्षादिप्रमाणहेत्वोः शुक्लकृष्णपक्षयोः अन्तर्मध्ये राजन्ती लेखा यस्य स तम् । अथवा चन्द्रमासापेक्षया प्रमाणपक्षयोः अन्ते-पौर्णमास्यां रागदा-हर्षदायिन्यो लेखा: कला यस्य स तम्, संपूर्णकलमित्यर्थः । पुनः किंविशिष्टं शशिनम् १ । “कुमुअति" कुमुदवनानां-रात्रिविकासिकमलानां विवोधकं प्रकाशकम् । पुनः किंवि[शिष्टं शशिनम् ? । निशायाः रात्रेः शोभकं शोभाकारकम् । पुनः किंविशिष्टं शशिनम् ? । “सुपरिमटेत्ति" सुपरिमृष्टेन दर्पणतलेन उपमा यस्य स तम् । पुनः किंविशिष्टं शशिनम् ? । हंसस्येव पटुः धवलो वर्णो यस्य सतम् । पुनः किंविशिष्टं शशिनम् ?| "जोइसत्ति" अत्र “जोइसमुहमंडगं" इति पदं सर्वत्र दृश्यते, तच्च अधिकमिव लक्ष्यते, वृत्ती अव्याख्यानात् । पुनः किंविशिष्टं शशिनम् । तमसः अन्धकारस्य रिपुः-वैरी तस्य ध्वंसनात्। “तमोऽरिपुं" इति पाठे तमसः अन्धकारस्य न रिपुः प्रस्तावो यस्मिन् स तम् । अत्र अकारस्य प्रश्लेषः कार्यः । पुनः किंविशिष्टं शशिनम् ? । “मयणे त्ति" मदनस्य-कन्दर्पस्य शरापूरमिव-तूणीरमिच, उदिते हि चन्द्रे लक्षीकरोति कामः कामिनां खशराणाम् । पुनः किंविशिष्टं शशिनम्।। "समुद्देत्ति” समुद्रस्य उदकपानीयम् पूरयति चन्द्रिकया तस्य-समुद्रस्य उल्लासनात् । पुनः किं कुर्वन्तम् । “दुम्मणंति" जनं-विरहिणीलोक, पादै किरणः शोषयन्तम्, तापातिरेककरणात् । “पादकैरिति प्रशंसायाम् कन् । पुनरिति योजित
लोकं, पापति चन्द्रिकया तस्यमवशराणाम्। पुनः विनय-कन्दर्पस्य शरार
For Private and Personal Use Only