________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ३
॥ ६० ॥
xoxox
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेषां चत्वारिंशल्लक्षानि कमलानि सन्ति ॥ इति पञ्चमो वलयः ॥ ५ ॥ पुनः तस्मात् पञ्चमवलयात् परितो दामस्वमवलयाकारेण षष्ठो बाह्यवलयो वर्तते, तस्मिन् वलये श्रीदेव्या अष्टचत्वारिंशलक्षा ये बाह्या आभियोगिक देवा २ वर्णनम् ५ वर्तन्ते तेषां देवानां अष्टचत्वारिंशलक्षकमलानि सन्ति ॥ इति षष्ठो वलयः ॥ ६ ॥ अथ कियन्ति सर्वाणि कमलानि जातानि ? तत्राह-एका कोटी विंशतिलक्षाः पञ्चाशत्सहस्राः एकं शतं विंशतिश्च कमलानि शाश्वतानि पृथिवीमयानि वनस्पतिकायकमलसदृशाकारतया दृश्यमानानि एतत्सर्वकमलवासिनो देवा देव्यश्च श्री (लक्ष्मी) सेवां कुर्वाणाः सन्ति । केचित् श्रीस्थाने लक्ष्मीं कृत्वा वर्णयन्ति, तत् न सङ्गतिं अङ्गति, यतो लक्ष्मीदेवता तु ऐरावतक्षेत्रे शिखरिपर्वतद्रहनिवासिनी, अथवा "लक्ष्मीः पद्मा रमा, या मा ता सा श्रीः कमलेन्दिरा” ( कां० २ श्लो० १४० ) इति श्रीमाचार्यवचनात् लक्ष्मी श्रीपर्यायत्वेन गण्यते, तदा लक्ष्मीनामग्रहणं अपि युक्तम्, नान्यथा ॥ इति चतुर्थश्रीदेवीस्वप्न विचारः ॥ ४ ॥
अथ पञ्चमे खमे त्रिशला क्षत्रियाणी पुष्पमालां पश्यति, परं सा कीदृशी ? तत्राह -
तओ पुणो सरसकुसुममंदारदामरमणिज्जभूअं चंपगासोगपुन्नागनागपिअंगुसिरी समुग्गरगमलिआजाइजूहिअंकोलकोज कोरिंटपत्तद्द्मणयनवमालिअचउलतिलय वासंतिअपउमुप्पलपाडलकुंदाइमुत्तसहकारसुरभिगंधिं अणुवममणोहरेणं गंधेणं दस दिखाओ वि वासयंतं सवोउ
For Private and Personal Use Only
॥ ६० ॥